________________
तन्दुलवैचारिक प्रकीर्णकम्
त्पलगन्धसदृशनिःश्वाससुर भिवदनाः 'छवी 'ति छविमन्तः उद्दीसवर्णया सुकुमालया च त्वचा युक्ता इति भावः, निरातङ्कानीरोगा इत्यर्थः उत्तमा - उत्तमलक्षणोपेताः प्रशस्ताः अतिशेषा - कर्मभूमिकमनुष्यापेक्षया अतिशायिनी अत एव निरु पमा - उपमारहिता तनुः -- शरीरं येषां ते उत्तमप्रशस्तातिशेषनिरुपमतनवः, एतदेव सविशेषमाह ।
७० ]
'जल्लमल ' ० याति च लगति चेति जल्लः पृषोदरादित्वानिष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्नमलः स च कलङ्क' च-- दुष्टतिलकादिकं स्वेदश्व-- प्रस्वेदः रजश्च - रेणुः दोषः - मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं चमूत्रविष्ठाद्युपले परहितं शरीरं येषां ते जल्लमलकलङ्कस्वेदरजोदोषवर्जित निरुपलेपशरीराः, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, छायया - शरीरप्रभया उद्योतितमङ्ग - शरीरं अंगं च--प्रत्यङ्ग येषां ते तथा । वज्रऋषभनाराचं संहननं येषां ते वज्रऋषभनाराचसंहननाः, समचतुरस्रं च तत् संस्थानं च समचतुरस्र संस्थानं तेन संस्थिताः समचतुरस्रसंस्थानसंस्थिताः, अनयोरग्रे व्याख्यां करिष्यामीति, षट् धनुःसहस्राणि अवसर्पिणीप्रथमारकापेक्षया ऊर्ध्वमुच्चत्वेन प्रज्ञप्ता इति । धनुःस्वरूपं जम्बूद्वीपप्रज्ञप्तौ यथा-अनंताणं सुहुमपरमाणुपोग्गलसमुदयसमागमेणं वावहारिए परमाणू णिप्फजति, तत्थ णो सत्थं संकामइ, अनंताणं वावहारियपरमाणूणं