SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिकप्रकीर्णकम् [३६ जनखकेशश्मश्रुरोमेषु (मसु) पूर्वव्याख्यातेषु 'परिणामोत्ति परिणामयतीत्यर्थः ॥ २०॥ ___एवं बु०' एवमुक्तप्रकारेण 'बुदि मिति शरीरं अतिगतः-प्राप्तः सन् गर्भ-जननीकुक्षौ संवसति-संतिष्ठते चारकगृहे चौरवत् , 'दुक्खिओ जीवो'त्ति अग्निवर्णाभिः सूचीभिः भिद्यमानस्य जन्तोः यादृशं दुःखं जायते ततोऽप्यष्टगुणं यद् दुःखं भवति तेन सदृशेन दुःखेन दुःखितो भवति जीवः गर्भ, किंभूते गर्भ ?-तमसा अन्धकारं यत्र तमोऽन्धकारः परमश्वासौ तमोऽन्धकारश्च परमतमोऽन्धकारः महान्धकारव्याप्त इत्यर्थः तस्मिन् , अमेध्यभृते-विष्ठापूर्णे प्रदेशे-जीववसनस्थानके ॥ २१ ॥ इति । ___ आउसो! तओ नवमे मासे तीए वा पडुप्पन्ने वा अणागए वा चउण्हं माया अण्णयरं पयायह, तंजहा-इत्थिं वा इत्थिरवेणं १ पुरिसंवा पुरिसरू. घेणं २ नपुसगं वा नपुंसगरूवेणं ३ किं वा बिषरूवेणं ४ ॥ सूत्रं १० ॥ ___ 'आउसो !तओ' इत्यादि, हे आयुष्मन् !-हे इन्द्रभूते ! तत:-अष्टमासानन्तरं नवमे मासे अतीते वा-अतिक्रान्ते वा प्रत्युत्पन्ने वा-वर्तमाने वा अनागते वा-अप्राप्ते वा 'चउण्हं' चतुर्णा स्यादिरूपाणां वक्ष्यमाणानां माता-जननी अन्यतरत-चतुर्णा मध्ये एकतरं 'पयायइ'त्ति प्रसूते 'तंजह'त्ति
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy