________________
१४ ]
तन्दुलवेचारिक प्रकीर्णकम्
वर्जित इत्यर्थेः ॥ १३ ॥ कियत्प्रमाणायुषामेतन्मानं द्रष्टव्य
मित्याह -
वाससयाउयमेयं परेण जा होइ पुव्वकोडीओ । तस्सडे अमिलाया सव्वाउयवीसभागो य ॥ १४ ॥
"वास " ० वर्षशतायुषामिदंयुगीनानामेतद् गर्भधारणादिकालमानमुक्तं, परेण तहिं का वार्त्तेत्याह - 'परे० ' वर्ष - शतात् परतो वर्षद्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहमनुष्याणां या पूर्वकोटिः सर्वायुषि स्यात् तस्य - सर्वायुषोऽर्घ तदर्थं यावदम्लाना - गर्भधारणयोग्या स्त्रीणां योनिः द्रष्टव्या, ततोऽपि परतः सकृत्प्रसवधर्माणोऽम्लानयोनयोऽवस्थितयौवनत्वात्, पुंसां पुनः सर्वस्यापि पूर्वकोटिपर्यन्तस्यायुषोऽन्त्यो विंशतिमो भागोऽबीज इति ॥ १४ ॥
अथ कियन्तः पुनर्जीवाः एकस्याः स्त्रियाः गर्भे एकहेलयैवोत्पद्यन्ते, कियतां च पितॄणां एकः पुत्रो भवति इत्याहरत्तक्कडा उ इत्थी लक्खपुहुत्तं च बारसमुहुत्ता । पिअसंख सयपुहुत्तं बारसवासा उ गन्भस्स ॥ १५ ॥
" रत्तू ०" अत्रान्यत्राप्यार्षत्वाद् विभक्तीनां वैचित्र्यं ज्ञातव्यमिति, मासान्ते त्रीणि दिनानि यावत् स्त्रीणां यन्निरन्तरमजश्रं श्रवति तदत्र रक्तमुच्येत, तेन रक्तेन - रुधिरेण उत्कटायाः पुरुषवीर्ययुक्तयोन्याश्च एकस्याः स्त्रियाः गर्भे