________________
तन्दुलवैचारिकप्रकीर्णकम् [१३ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये ?, मार्गे २, रक्ते ३ शुक्र ४ ऽनिले ५ हृदि ६ ॥२॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः। रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव चा ॥३॥"
इति । शुद्ध-निर्दोषे गर्भाशयादिषट्के इत्यर्थः । तथा च"ऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः । एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥४॥ पद्म सोचमायाति, दिनेऽतीते तथा यथा। ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥५॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः। ईषत् कृष्णं विगन्धं च, वायुर्योनिमुखात्तुदेत् ॥६॥"
तथा चाविध्वस्ता योनिरविध्वस्तं बीजं १ अविध्वस्ता योनिर्विध्वस्तं बीजं २ विध्वस्ता योनिरविध्वस्तं बीजं ३ विध्वस्ता योनिर्विध्वस्तं बीजं ४ चतुषु भङ्गषु आये भङ्ग एवोत्पत्तेरवकाशः, न शेषेषु त्रिष्विति, तत्र पञ्चपञ्चाशिका मारी विध्वस्तयोनिः, सप्तसप्ततिकः पुमानिति, "द्वादश मुहू
नि यावद् बीजं न विध्वस्तं स्यात्तत ऊवं विध्वस्त" मिति द्वितीयाङ्गवत्ताविति । तथा पुमान्-पुरुषः प्रायः पञ्चसप्ततिवर्षेभ्यः परत ऊर्ध्वमवीजो भवेत , गर्भाधानयोग्यवीजवि