SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३८ ] तन्दुलगैचारिकप्रकोणकम् वनशूकरतुल्याः, यथा शूकरः कमपि सारं कन्दादिकं भक्ष्य प्राप्य विजने गत्वा भक्षयति तथेमाः ७८ चञ्चलाः-- चपलाः ७६ "जोइभंडोवरागो विव मुहरागविरागाओ'त्ति ज्योतिर्भाण्डोपरागवत्--अग्निभाजनसमीपरागवत् मुखरागविरागाः यथाऽग्निभाजनसमीपं मुखं रागवत् भवति अन्ते विरागं तथेमाः यद्वा 'जोइभंडो विव रागाओत्ति०' पाठे तु ज्योतिर्भाण्डस्येवोपरागाः, यथा ज्योति भण्डं--अग्निभाजनं उप-समीपे रागवत् भवति तथैमा वस्त्रादिभिरुप--समीपे रागवत्यो भवन्तीत्यर्थः ८० । 'अवि याइंति.' अपिचेत्यभ्युच्चये 'आई'ति वाक्यालङ्कारे 'ताओ' ताः स्त्रियः 'अंतरं' अन्तरङ्गभङ्गशतं--अभ्यन्तरविघटनशतमस्याः पक्षपाते पुरुषस्य परस्परं मैच्यादिविनाशहेतुत्वात् , यद्वा अन्तः-मध्ये 'रंग'ति पुरुषाणां ब्रह्मव्रतचारित्रादिरागस्तस्य भङ्गशतं तस्य विघ्नहेतुत्वात् ८१ अरज्जुकः पाशः रज्जुकं विना बन्धनमित्यर्थः ८२ 'अदारुय'त्ति अदारुका-काष्ठादिरहिता अटवी-कान्तारं, यथा १. 'जाइअभंडोवगारोविव मुहरागविरागाओ' इत्यपि पाठः व्याख्या च तत्र-जात्यभाण्डोपकारवत् मुखरागविरागाः यथा जातिभाण्डस्य उपकारावसरे स्तुतिकरणरूपो मुखरागो भवति अन्तश्च विरागो-रागाभावः एवं स्त्रीजनस्यापीतिभावः, युक्तश्वायं पाठः ।
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy