________________
६६ ]
तन्दुलनैचारिकप्रकीर्णकम्
विना विकथानिद्रालस्यवतां मुधा गतानि, कथं ?-निद्रया पञ्चाशद् वर्षाणि ५० बालत्वे दश १० वृद्धभावे दश १० शीतादिभिः पञ्चदश १५, एवं सर्वाणि ८५ इति, ये जीवाः वर्षशतिकाः-वर्षशतप्रमाणा भवन्ति ते जीवाः पञ्चदश वर्षाणि जीवन्ति, अन्येषां वर्षाणां धर्मत्वेनामृतप्रायत्वात् , न च वर्ष शवजीविनो जीवाः प्रायः सुलभाः, दुष्प्रापा इत्यर्थः, उक्तं च'आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्थं गतं, तस्यास्य परस्य चार्धमपरं बाल्ये च वृद्धे गतम् ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते, जीवे वारितरगचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ७८ ॥
_ 'एवं०' एवमुक्तप्रकारेण निःसारे-असारे मानुषत्वेमनुजत्वे तथा जीविते-आयुषि रत्नकोटिकोटिभिरप्यप्राप्येऽधिपतति-समये २ क्षयं गच्छति सतीत्यर्थः न कुरुत यूयं चरणधर्म-ज्ञानदर्शनपूर्वकं देशसर्वचारित्रं, हा इति महाखेदे, पश्चाद्-आयुःक्षयानन्तरमायुःक्षयचरमक्षणे वा पश्चातापं-कायवाङ्मनोभिर्महाखेदं करिष्यथ नरकस्थशशिराजवदिति ॥ ७९ ॥ ___ भव्याः प्रश्नयन्ति-कथं वयं नात्मस्वरूपं जानीम इत्युक्ते गुरुराह'-घुटुंमि०' धर्मस्य जिनोक्तरूपस्य तीथ-पवित्रकरणस्थानकं तस्य मार्गो ज्ञानदर्शनचारित्ररूपः वरश्चासौ धर्म