________________
द्वितीयोऽङ्कः ।
७३
वमाणेण शक्कशमणके हुविश्शम् । ता शंवाहके जूदिअले शक्कशमणके शंकुत्तेत्ति शुमलिदव्वा अजआए एदे अक्खलु । (क) वसन्तसेना - अज्ज, अलं साहसेण । (ख)
संवाहक :- अज्जए, कले णिच्चए। ( इति परिक्रम्य ।) जूदेण तं कदं में जं वीहत्थं जणरश शव्वश्श । एहिं पाअडशीशे णलिन्दमग्गेण विहलिश्शम् ॥ १७ ॥ (ग) (नेपथ्ये कलकलः ।)
संवाहक : – ( आकर्ण्य ) अले, किं ण्णेदम् । (आकाशे ) किं भणाध - 'एशे क्खु वशन्तशेणआए खुण्टमोडके णाम दुट्टहत्थी विअलेदि' त्ति । अहो, अज्जआए गन्धगअं पेक्खिश्शं गदुअ | अहवा किं मम एदिणा । जधाववशिदं अणुचिट्ठिश्शम् । (घ ) ( इति निष्क्रान्तः ।) (ततः प्रविशत्यपटीक्षेपेण प्रहृष्टो विकटोज्ज्वलवेशः कर्णपूरकः ।) कर्णपूरक: कहिं कहिं अज्जआ । (ङ)
(क) आर्यया निपुणं प्रत्यादिष्टोऽस्मि । कथं प्रत्युपकरिष्ये । आर्ये, अहमेतेन द्यूतकरापमानेन शाक्यश्रमणको भविष्यामि । तत्संवाहको द्यूतकरः शाक्यश्रमणकः संवृत्त इति स्मर्तव्यान्यार्ययैतान्यक्षराणि ।
(ख) आर्य, अलं साहसेन ।
(ग) आर्ये, कृतो निश्चयः ।
द्यूतेन - तत्कृतं मम यद्विहस्तं जनस्य सर्वस्य । इदानीं प्रकटशीर्षो नरेन्द्रमार्गेण विहरिष्यामि ॥
(घ) अरे, किं न्विदम् । किं भणत - 'एष खलु वसन्तसेनायाः खुण्टमोडको नाम दुष्टहस्ती विचरति' इति । अहो, आर्याया गन्धगजं प्रेक्षिष्ये गत्वा । अथवा किं ममैतेन । यथाव्यवसितमनुष्ठास्यामि ।
(ङ) कुत्र कुत्रार्या ।
रूपा ॥ शुश्रूषितपूर्वः ॥ शक्कशमणके शाक्यभिक्षुः । एतान्यक्षराणि ॥ जूदेणेत्यादि । गाथा । द्यूतेन तत्कृतं मम सर्वस्माज्जनाद्विभ्यते यत् । 'यद्विभ्यतः सर्वस्य जन[स्य]' इति प्राचीनटीका । इदानीं द्यूतदेयदशसुवर्णदेयकाले । प्रकटशीर्षो नरेन्द्रमार्गेण विहरिष्यामि । भयविरहादित्याशयः ॥ १७ ॥ विअलेदि विचरति । 'विकलयति' इत्येके । गलुअदा गुरुत्वम् (?) । महावैभवशालित्वात् । यथाव्यवसितं
मृ० ७