________________
प्रथमोऽङ्कः।
एतत्तु मां दहति नष्टधनाश्रयस्य
यत्सौहृदादपि जनाः शिथिलीभवन्ति ॥ १३ ॥ अपि च । दारिद्याड्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते । निविण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १४ ॥ विदूषकः-भो वअस्स, तं जेव अत्थकल्लवत्तसुमरिअ अलं संतप्पिदेण । (क) चारुदचः-वयस्य, दारिद्यं हि पुरुषस्य निवासश्चिन्तायाः परपरिभवो वैरमपरं
जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् । वनं गन्तुं बुद्धिर्भवति च कलत्रात्परिभवो
हृदिस्थः शोकामिन च दहति संतापयति च ॥ १५ ॥ (क) भो वयस्य, तमेवार्थकल्यवर्ते स्मृत्वालं संतापितेन । एतत्तु मां दहति यन्नष्टधनाश्रयस्य मम सौहृदादपि मैत्रीतोऽपि जनाः शिथिलीभवन्ति । अर्थशून्येन समं प्रयोजनाभावान्मैत्रीमपि न केऽपि कुर्वते ॥ १३ ॥ दारियादिति । लज्जां गच्छति, आकासितासामर्थ्यात् । यदा लज्जा गता तदा तेजसः प्रभ्रष्टो भवति, यावत्तावत्कारणात् । तेजःशून्यः परिभूयते, भयाभावात् । परिभवानिर्वेदं गच्छति, मानम्लानेः । ततः शुचमेति, वृथा जीवनमिति । ततस्त्यज्यते बुद्धया। निर्बुद्धिः क्षयं गच्छति । तदुक्तम्-'बुद्धिनाशात्प्रणश्यति' इति । अत एव सर्वासामापदां स्थानमित्युपसंहरति ॥ १४ ॥ कल्लवत्तरं प्रातराशः । एतद्रूपत्वे चार्थस्य तावद्रूपद्रव्यत्वाज्जनान्तरानवगाहितत्वाच्च तद्विस्मृत्य धर्मचित्ताः साधवो भवन्तीत्याशयः ॥ निवास इति । चिन्ताया निवासः । कथं मम निर्वाहः स्यादित्येवंरूपायाः । परस्य . परिभव इति षष्ठीसमासः, कर्मधारयो वा । एतच्चाविश्वसनीयतया निर्धनानां ज्ञेयम् । जुगुप्सा मित्राणामिति, प्रत्युपकारासमर्थत्वात् । खजवानां बन्धूनाम् , जनानामन्येषामुदासीनानाम् । करणं कृतिः । कर्तरि करणे वा ल्युट् । भवति चेति चकारो हेतौ ।