________________
मृच्छकटिके
विदूषकः - भो वअस्स, अलं संतप्पिदेण । पणइजणसंकामिद
-
विहवस्स सुरजणपी दसे सस्स पडिवच्चन्दस्स विअ परिक्लओ वि दे अहिअदरं रमणीओ । (क)
१४
चारुदत्तः — वयस्य, न ममार्थान्प्रति दैन्यम् । पश्य । एतत्तु मां दहति यद्गृहमस्मदीयं क्षीणार्थमित्यतिथयः परिवर्जयन्ति ।
संशुष्क सान्द्रमदलेखमिव भ्रमन्तः
कालात्यये मधुकराः करिणः कपोलम् ॥ १२ ॥ विदूषकः - भो वअस्स, एदे क्खु दासीए पुत्ता अत्थक़ल्लवत्ता वरडाभीदा विr गोवालदारआ अरण्णे जहिं जहिं ण खज्जन्ति तहिं तहिं गच्छन्ति । (ख)
चारुदत्तः – वयस्य,
सत्यं न मे विभवनाशकृतास्ति चिन्ता
भाग्यक्रमेण हि धनानि भवन्ति यान्ति ।
(क) भो वयस्य, अलं संतप्तेन । प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपच्चन्द्रस्येव परिक्षयोऽपि तेऽधिकतरं रमणीयः ।
(ख) भो वयस्य, एते खलु दास्याः पुत्रा अर्थकल्यवर्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति ।
शम् । बहुसमयव्यापित्वादाकाङ्क्षितापगमाद्दारिद्र्यमनन्तकं दुःखम् ॥ ११ ॥ संतप्पिदेण संतप्तेन । प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपच्चन्द्रस्येव परिक्षयोऽपि तेऽधिकतरं रमणीयः । यद्यसद्वययेनार्थाः स्वदोषेण नाश्यन्ते तदा संतापः क्रियते । तव तु न तथेति भावः । प्रणयी जनः स्निग्धबान्धवोऽथ च ॥ एतदिति । क्षीगार्थमितिकृत्वास्मद्गृहमतिथयः संत्यजन्ति । एतन्मां दहति । कालात्यये मदसमयापगमे धनलाभसमयापगमे च ॥ १२ ॥ एदे क्खु एते खलु । दासीपुत्रा अर्थरूपप्रातराशाः । वरटा 'वीरणी' इति ख्याता । ततस्वस्ताः । अरण्ये गोपालपुत्रका इव यत्र यत्र न खाद्यन्त उपभुज्यन्ते तत्र तत्र यान्ति ॥ सत्यमिति । विभवनाशकृता मम चिन्ता नास्ति । कथमित्यत आहभाग्यक्रमेण लब्धव्यक्रमेण धनानि भवन्ति । तर्हि चिन्ता कुत इत्यत आह
----
1