________________
२६६
मृच्छकटिके
चाण्डालौ-अले, के अन्तलं मग्गेदि । (क)
___ (चेटः 'शुणाध' (२६५ पृष्ठे) इति पूर्वोक्तं पठति ।) चारुदत्तः-अये, कोऽयमेवंविधे काले कालपाशस्थिते मयि ।
अनावृष्टिहते सस्ये द्रोणमेघ इवोदितः ॥ २६ ।। भोः, श्रुतं भवद्भिः।
न भीतो मरणादमि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमो भवेत् ॥ २७ ॥ अन्यच्च ।
तेनास्म्यकृतवरेण क्षुद्रेणात्यल्पबुद्धिना ।
शरेणेव विषाक्तेन दूषितेनापि दूषितः ॥ २८ ॥ चाण्डालौ-थावलअ, अवि शचं भणाशि । (ख)
चेट:-शच्चम् । हग्गे वि मा कश्श वि कधइश्शशि ति पाशादबालग्गपदोलिकाए दण्डणिअलेण बन्धिअ णिक्खित्ते । (ग)
येण ! कथम् । विदूरतया न कोऽपि शृणोति । तत्कि करोमि । आत्मानं पातयामि । यद्येवं करोमि, तदार्यचारुदत्तो न व्यापाद्यते । भवतु । अस्याः प्रासादबालाग्रप्रतोलिकात एतेन जीर्णगवाक्षेणात्मानं निक्षिपामि । वरमहमुपरतः, न पुनरेष कुलपुत्रविहगानां वासपादप आर्यचारुदत्तः । एवं यदि विपद्ये लब्धो मया परलोकः । आश्चर्यम् । नोपरतोऽस्मि । भग्नो मे दण्डनिगडः । तच्चाण्डालघोषं समन्विष्यामि । हहो चाण्डलाः; अन्तरमन्तरम् । (क) अरे, कोऽन्तरं याचते । (ख) स्थावरक, अपि सत्यं भणसि ।
(ग) सत्यम् । अहमपि मा कस्यापि कथयिष्यसीति प्रासादबालाग्रप्रतोलिकायां दण्डनिगडेन बद्धा निक्षिप्तः ।
बालग्गपदोलिआए बालाग्रप्रतोलीतः । प्रासादभागादित्यर्थः ॥ कोऽयमिति