________________
२५४
मृच्छकटिके
त्थकल्लवत्तस्स कारणादो वसन्तसेणा वावादिदा, तं ताइं ज्जेव आहरणाई गले बन्धि डिण्डिमं ताडिअ दक्खिणमसाणं णइभ सूले भज्ज्ञेध' त्ति । जो को वि अवरो एरिसं अकजं अणुचिदृदि सो एदिणा सणिआरदण्डेण सासीअदि । (क)
चारुदत्तः– अहो, अविमृश्यकारी राजा पालकः । अथवा । fe व्यवहारानौ मन्त्रिभिः परिपातिताः ।
स्थाने खलु महीपाला गच्छन्ति कृपणां दृशाम् ॥ ४० ॥
अपि च ।
ईदृशैः श्वेतकाकीयै राज्ञः शासनदूषकैः ।
अपापानां सहस्राणि हन्यन्ते च हतानि च ॥ ४१ ॥ सखे मैत्रेय, गच्छ । मद्वचनादम्बा मपश्चिममभिवादयस्व । पुत्रं च मे रोहसेनं परिपालयस्व ।
विदूषकः - मूले छिण्णे कुदो पादवस्स पालणम् । (ख) चारुदत्तः–मा मैवम् ।
नृणां लोकान्तरस्थानां देहप्रतिकृतिः सुतः ।
वै तव स्नेहो रोहसेने स युज्यताम् ॥ ४२ ॥ विदूषकः - भो वअस्स, अहं ते पिअवअस्सो भविअ तुए विरहिदाई पाणाई धारेमि । (ग)
(क) यदार्य आज्ञापयति । आर्याः, गतोऽस्मि तत्र । राजा पालको भपति –'येनार्थकल्यवर्तस्य कारणाद्वसन्तसेना व्यापादिता, तं तान्येवाभर - णानि गले बद्धा डिण्डिमं ताडयित्वा दक्षिणश्मशानं नीत्वा शूले भङ्क' इति । यः कोऽप्यपर ईदृशमकार्यमनुतिष्ठति स एतेन सनिकारदण्डेन शास्यते ।
(ख) मूले छिन्ने कुतः पादपस्य पालनम् ।
(ग) भो वयस्य, अहं ते प्रियवयस्सो भूत्वा त्वया विरहितान्प्राणान्धारयामि ।
ईदृश इति ॥४०॥ ईदृशैरिति । द्रुपदादीनां श्वेतकाकीयत इवार्थे च्छः (?) उत्पातकल्पैरित्यर्थः ॥ ४१ ॥ नृणामिति ॥ ४२ ॥ विषसलिलेति ।