________________
नवमोऽङ्कः ।
२४७
तुमं उब्विग्गो उव्वग्गो विअ लक्खीभसि । ( आकर्ण्य 1 ) किं भणासि - 'पिअवअस्सो चारुदत्तो अधिअरणमण्डवे सहाइदो' ति । ताण हु अप्पेण कज्ज्ञेण होदव्वम् । (विचिन्त्य ।) ता पच्छा वसन्तसेणासआसं गमिस्सम् । अधिअरणमण्डवं दाव गमिस्सम् । (परिक्रम्यावलोक्य च ।) इदं अधिअरणमण्डवम् । ता जाव पविसामि । (प्रविश्य) सुहं अधिअरणभोइआणम् । कहिं मम पिअवअस्सो । (क)
अधिकरणिकः - नन्वेष तिष्ठति ।
---
विदूषकः - अस्स, सोत्थि दे । (ख)
चारुदत्तः—भविष्यति । विदूषकः - अवि क्खेमं दे । (ग) चारुदत्तः - एतदपि भविष्यति ।
विदूषकः - भो वअस्स, किंणिमित्तं उव्वग्गो उब्विग्गो विअ लक्खीअसि । कुदो वा सदाइदो । (घ )
चारुदत्तः – वयस्य,
1
(क) प्रेषितोऽस्म्यार्यचारुदत्तेन वसन्तसेनासकाशम्, तत्रालंकरणानि गृहीत्वा, यथा- 'आर्यमैत्रेय, वसन्तसेनया वत्सो रोहसेन आत्मनोऽलंकारेणालंकृत्य जननीसकाशं प्रेषितः । अस्या आभरणं दातव्यम्, न पुनर्गृहीतव्यम् । तत्समर्पय' इति । तद्यावद्वसन्तसेनासकाशमेव गच्छामि । कथं भावरेभिलः | भो भावरेभिल, किंनिमित्तं त्वमुद्विग्न उद्विग्न इव लक्ष्यसे । किं भणसि- -'प्रियवयस्यश्चारुदत्तोऽधिकरणमण्डप आहूतः' इति । तन्न खल्वल्पेन कार्येण भवितव्यम् । तत्पश्चाद्वसन्तसेनासकाशं गमिष्यामि । अधिकरणमण्डपं तावद्गमिष्यामि । अयमधिकरणमण्डपः । तद्यावत्प्रविशामि । सुखमधिकरणभोजकानाम् । कुत्र मम प्रियवयस्यः ।
(ख) वयस्य, स्वस्ति ते ।
(ग) अपि क्षेमं ते ।
(घ) भो वयस्य, किंनिमित्तमुद्विग्न उद्विग्न इव लक्ष्यसे । कुतो वा - इ॒तः ।
-