________________
नवमोऽङ्कः। यथा यथेदं निपुणं विचार्यते
तथा तथा संकटमेव दृश्यते । अहो सुसन्ना व्यवहारनीतयो
मतिस्तु गौः पङ्कगतेव सीदति ॥ २५ ॥ चारुदत्तः-(खगतम् ।)
यथैव पुष्पं प्रथमे विकाशे
समेत्य पातुं मधुपाः पतन्ति । एवं मनुष्यस्य विपत्तिकाले
छिद्रेष्वना बहुलीभवन्ति ॥ २६ ॥ अधिकरणिक:-आर्यचारुदत्त, सत्यमभिधीयताम् । चारुदत्तः-.
दुष्टात्मा परगुणमत्सरी मनुष्यो __रागान्धः परमिह हन्तुकामबुद्धिः । किं यो यद्वदति मृषैव जातिदोषा
... त्तद्राह्यं भवति न तद्विचारणीयम् ॥ २७ ॥ अपि च ।
योऽहं लतां कुसुमितामपि पुष्पहेतो
राकृष्य नैव कुसुमावचयं करोमि । सोऽहं कथं भ्रमरपक्षरुचौ सुदीचे
केशे प्रगृह्य रुदतीं प्रमदां निहन्मि ॥ २८ ॥ शकारः-हंहो अधिअलणभोइआ, किं तुम्हे पक्खवादेण व. वहालं पेक्खध, जेण अज वि एशे हदाशचालुदत्ते आशणे धालीअदि । (क)
(क) हंहो अधिकरणभोजकाः, किं यूयं पक्षपातेन व्यवहारं पश्यत, येनाद्याप्येष हताशचारुदत्त आसने धार्यते । .. यथेति । 'अहो सुसन्ना व्यवहारनीतयः' इति सामान्यविशेषभावेन विशेषणम् ॥ २५ ॥ यथेति । छिद्रेषु व्यसनेषु ॥ २६ ॥ दुष्टात्मेति । प्रह