________________
२४४
मृच्छकटिके
अधिकरणिका-भद्र, जानीषे कस्य तत्प्रवहणमिति । वीरकः-इमस्स अजचारुदत्तस्स । वसन्तसेणा आरूढा पुप्फकरण्डकजिण्णुजाणं कीलिदु णीअदि त्ति पवहणवाहएण कहिदम् । (क)
शकारः-पुणो वि शुदं अजेहिं । (ख) अधिकरणिकःएष भो निर्मलज्योत्स्नो राहुणा ग्रस्यते शशी ।
जलं कूलावपातेन प्रसन्नं कलुषायते ॥ २४ ॥ वीरक, पश्चादिह भवतो न्यायं द्रक्ष्यामः । य एषोऽधिकरणद्वार्यश्वस्तिष्ठति, तमेनमारुह्य गत्वा पुष्पकरण्डकोद्यानम्, दृश्यतामस्ति तत्र काचिद्विपन्ना स्त्री न वेति ।
वीरकः-जं अज्जो आणवेदि । (इति निष्क्रान्तः । प्रविश्य च ।) गदो म्हि तहिं । दिट्टं च मए इत्थिआकलेवरं सावएहिं विलुप्पन्तम् । (ग)
श्रेष्ठिकायस्थौ-कधं तुए जाणिदं इत्थिआकलेवरं त्ति । (घ) वीरकः—सावसेसेहिं केसहत्थपाणिपादेहिं उवलक्खिदं मए।(ङ)
अधिकरणिकः-अहो, धिग्वैषम्यं लोकव्यवहारस्य । कितव्यम्' इति भणन्नेव चन्दनमहत्तरकेण पादेन ताडितोऽस्मि । एतच्छुत्वार्यमिश्राः प्रमाणम् ।
(क) अस्यार्यचारुदत्तस्य । वसन्तसेनारूढा पुष्पकरण्डकजीर्णोद्यानं क्रीडितुं नीयत इति प्रवहणवाहकेन कथितम् ।
(ख) पुनरपि श्रुतमार्यैः । (ग) यदार्य आज्ञापयति । गतोऽस्मि तत्र । दृष्टं च मया स्त्रीकलेवरं श्रापदैविलुप्यमानम् । (घ) कथं त्वया ज्ञातं स्त्रीकलेवरमिति ।
(ङ) सावशेषैः केशहस्तपाणिपादैरुपलक्षितं मया।. एष इति ॥ २४ ॥ सावएहिं श्वापदैः ॥ [सावसेसेहिं] सावशेषाभ्याम् ॥