________________
२३६
मृच्छकटिके शकारः-शुदं अज्जेहिं । लिहीअन्दु एदे अक्खला । चालुदतेण शह मम विवादे । (क)
श्रेष्ठिकायस्थौ-चारुदत्तो मित्तो त्ति णत्थि दोसो । (ख) . अधिकरणिकः-व्यवहारोऽयं चारुदत्तमवलम्बते । श्रेष्ठिकायस्थौ-एव्वं विअ । (ग)
अधिकरणिक:-धनदत्त, वसन्तसेनार्यचारुदत्तस्य गृहं गतेति लिख्यतां व्यवहारस्य प्रथमः पादः। कथम् । आर्यचारुदत्तोऽप्यस्माभिराहाययितव्यः । अथवा व्यवहारस्तमाह्वयति । भद्र शोधनक, गच्छ । आर्यचारुदत्तं वैरमसंभ्रान्तमनुद्विग्नं सादरमाह्वय प्रस्तावेन–'अधिकरणिकस्त्वां द्रष्टुमिच्छति' इति ।।
शोधनकः-जं अज्जो आणवेदि । (इति निष्क्रान्तः । चारुदत्तेन सह प्रविश्य च ।) एदु एदु अजो । (घ) चारुदत्तः-(विचिन्त्य ।)
परिज्ञातस्य मे राज्ञा शीलेन च कुलेन च ।
यत्सत्यमिदमाहानमवस्थामभिशङ्कते ॥ ८ ॥ (सवितर्क खगतम् ।)
ज्ञातो हि किं नु खलु बन्धनविप्रयुक्तो
मार्गागतः प्रवहणेन मयापनीतः । चारेक्षणस्य नृपतेः श्रुतिमागतो वा
येनाहमेवमभियुक्त इव प्रयामि ॥ ९ ॥ (क) श्रुतमार्यैः। लिख्यन्तामेतान्यक्षराणि । चारुदत्तेन सह मम विवादः । (ख) चारुदत्तो मित्रमिति नास्ति दोषः । (ग) एवमिव ।
(घ) यदार्य आज्ञापयति । एत्वेत्वार्यः । त्तेति कायस्थसंबोधनम् । खैरं स्वच्छन्दम् । असंभ्रान्तं संभ्रमशून्यम् ॥ परीति । अवस्थामीदृशीं दशाम् ॥ ८ ॥ ज्ञात इति । मार्गागत आर्यकः ॥९॥