SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३० मृच्छकटिके फेलिअ एत्थ अण्णं अधिअलणिअं ठावइश्शम् । (इति गन्तुमिच्छति ।) शोधनक:- अज्ज रट्टिभशालभ, मुहुत्तअं चिट्ठ | दाव अधिअरणिआणं णिवेदेमि । ( अधिकरणिकमुपगम्य ) एसो रट्टिभशालो कुविदो भणादि । (ख) (इति तदुक्तं भणति ।) 1 अधिकरणिकः – सर्वमस्य मूर्खस्य संभाव्यते । भद्र, उच्चताम् - ' आगच्छ, दृश्यते तव व्यवहारः । शोधनकः - (शकारमुपगम्य ।) अज्ज, अधिअरणिआ भणन्ति - 'आअच्छ । दीसदि तव ववहारो । ता पविसदु अज्जो । (ग) शकारः - पढमं भणन्ति ण दीशदि, संपदं दीरादि ति । ता णाम भी भीदा अधिअलणभोइआ । जेत्तिअं हग्गे भणिश्शं तेत्तिअं पत्तिआवइश्शम् । भोदु । पविशामि । (प्रविश्योपसृत्य ।) शुशुहं अम्हाणम्, तुम्हाणं पि शुहं देमि ण देमि अ । (घ) 1 अधिकरणिकः— (खगतम् ।) अहो, स्थिरसंस्कारता व्यवहारार्थिनः । ( प्रकाशम् ।) उपविश्यताम् । शकारः —आं, अत्तणकेलका शे भूमी । ता जहिं मे रोअदि (क) आः, किं न दृश्यते मम व्यवहारः । यदि न दृश्यते, तदावृत्तं राजानं पालकं भगिनीपतिं विज्ञाप्य भगिनीं मातरं च विज्ञाप्यैतमधिकरणिकं दूरीकृत्यात्रान्यमधिकरणिकं स्थापयिष्यामि । (ख) आर्य राष्ट्रियश्याल, मुहूर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । एष राष्ट्रियश्यालः कुपितो भणति । (ग) आर्य, अधिकरणिका भणन्ति – 'आगच्छ । दृश्यते तव व्यव - हारः ।' तत्प्रविशत्वार्यः । (घ) प्रथमं भणन्ति न दृश्यते, सांप्रतं दृश्यत इति । तन्नाम भीतनीता अधिकरणभोजकाः । यद्यदहं भणिष्यामि तत्तत्प्रत्याययिष्यामि । भवतु । प्रविशामि । सुसुखमस्माकम्, युष्माकमपि सुखं ददामि न ददामि च । पुनरुक्तम् । 'अत्तिकां भगिनीं ज्येष्ठाम् ॥ युष्माकं सुखं ददामि न ददामि ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy