________________
अष्टमोऽङ्कः ।
२२१
एशे म्हि तुलिदतुलिदे लक्षाणअलीए गअणे गच्छन्ते ।
भूमीए पाआले हणूमशिहले विअ महेन्दे ॥ ४५ ॥ (क) (इति निष्कान्तः ।)
(प्रविश्यापटीक्षेपेण) संवाहको भिक्षुः-पक्खालिदे एशे मए चीवलखण्डे । किं णु क्खु शाहाए शुक्खावइश्शम् । इध वाणला विलुप्पन्ति । किं णु क्खु भूमीए । धूलीदोशे होदि । ता कहिं पशालिअ शुक्खा
(क) आत्मपरित्राणे भावो गतोऽदर्शनम् । चेटमपि प्रासादबालाग्रप्रतोलिकायां निगडपूरितं कृत्वा स्थापयिष्यामि । एवं मन्त्रो रक्षितो भवति । तद्गच्छामि । अथवा पश्यामि तावदेनाम् । किमेषा मृता, अथवा पुनरपि मारयिष्यामि । कथं सुमृता । भवतु । एतेन प्रावारकेण प्रच्छादयाम्येनाम् । अथवा नामाङ्कित एषः । तत्कोऽप्यार्यपुरुषः प्रत्यभिज्ञास्यति । भवतु । एतेन वातालीपुञ्जितेन शुष्कपर्णपुटेन प्रच्छादयामि । भवतु । एवं तावत् । सांप्रतमधिकरणं गत्वा व्यवहारं लेखयामि, यथार्थस्य कारणात्सार्थवाहकचारुदत्तकेन मदीयं पुष्पकरण्डकं जीर्णोद्यानं प्रवेश्य वसन्तसेना यापादितेति।
चारुदत्तविनाशाय करोमि कपटं नवम् । . नगर्यो विशुद्धायां पशुधातमिव दारुणम् ॥ भवतु । गच्छामि । अविद मादिके । येन येन गच्छामि मार्गेण, तेनैवैष दुष्टश्रमणको गृहीतकषायोदकं चीवरं गृहीत्वागच्छति । एष मया नासां छित्त्वा वाहितः कृतवैरः कदापि मां प्रेक्ष्यतेन मारतेति प्रकाशयिष्यति । तत्कथं गच्छामि । भवतु । एतमर्धपतितं प्राकारखण्डमुल्लङ्घय गच्छामि।
एषोऽस्मि त्वरितत्वरितो लङ्कानगर्यो गगने गच्छन् ।
भूम्यां पाताले हनूमच्छिखर इव महेन्द्रः ॥ कृतवैरः । एशे म्हि इत्यादि । गाथा । एषोऽहं त्वरितत्वरितो लङ्कानगों गगने गच्छन् । भूमौ पाताले हनूमच्छिखरादिव महेन्द्रः ॥ महेन्द्रशिखरादिव हनूमानिति वक्तव्ये शकारोक्तत्वाद्विपरीतम् । 'अअ' इति पाठे अष्टकशिखरादित्यर्थः । व्याहतोपममिदं तावत् ॥ ४५ ॥ तथेति प्रसार्य । भवतु । धर्माक्ष
.