________________
PLOT OF THE PLAY
IN SANSKRIT.
मालवप्रदेशान्तर्गतसिप्रानदीपूर्वतीरस्थाऽवन्त्यपराभिधोजयिनीवास्तव्य. योर्वसन्तसेनाचारुदत्तयोः परस्परानुरागमवलम्ब्य शूद्रकनपतिविरचितं शगोररसप्रधानं दशाङ्कनिबद्धं मृच्छकटिकं नामेदं प्रकरणं, तत्र--
... -HAct. प्रथमेऽङ्के' चूर्णवृद्धप्रेषितजातिकुसुमवासितप्रावारकमादायागच्छतः, सादेशं मातृकाभ्यो बलिमुपहर्तुं पक्षद्वारमपावृत्य रदनिकया चतुष्पथं गच्छतोऽन्तराले वसन्तसेनाशङ्कया संस्थानकशकारनिगृहीतां रदनिकां प्रेक्ष्य विटेन सविनयमनुनीयैतदनिवेदयितुमङ्गीकारितात्प्रतिनिवृत्त्य “अस्माभिरभिसार्यमाणा वसन्तसेना भवद्भवनं प्रविष्टा, यदि तामर्पयसि तदा मैन्यन्यथाs मरणवैरं" इति राष्ट्रियोक्ति निवेदयतो, मैत्रेयात्सेय मिति श्रुत्वा रत्नभाण्डं निक्षिप्य प्रतिगन्तुकामां तां प्रतियाप्य, नक्तमोपनिधिकं रक्षितुं विदूषकायादिश्य च, स्वभवनं प्रत्याविशति चारुदत्तः ॥
II Act. द्वितीयेऽङ्केवसन्तसेना मदनिकया चारुदत्तमेवानुचिन्तयन्ती, द्यूते दशसुवर्णहारणात् पलाय्य जीर्णदेवालये गत्वा देवप्रतिमारूपेणावस्थितस्य, तमनुसरयां सभिकबूतकराभ्यां छूतेन निगृहीतस्य तदनु गण्डं कारयितुं राजमार्गे नीतस्य, तत्र शर्विलकमित्रदर्दुरकेण विकलहाय्य पांसुना सभिकस्य चक्षुषी प्रपूर्य पलायितस्य, अपावृतद्वारं वसन्तसेनागृहं प्रविष्टस्य, प्रश्नोत्तराभ्यां परिज्ञातपूर्वचारुदत्तसेवकस्य, संवाहकस्याथै, द्वारबहिश्चतुष्पथावस्थितमाथुराय निजरुक्मवलयं दत्वा, कर्णपूरकान्निजभुजविक्रमवृतकरिदमनलब्धं परितोषजातिकुसुमवासितप्रावारकमादाय तत्प्रतिनिधिजाम्बूनदकटकं तस्मै दत्वा च स्वसदननिकटमार्गेण स्वभवनं गच्छन्तं चारुदत्तं निरीक्षितुमुदालिन्दमारोहति ॥
III Act. तृतीयाऽङ्केअतिक्रामन्त्यामर्द्धरजन्यां स्वापोद्यते चेटे गान्धर्व श्रुत्वा गच्छन् वीणास.