________________
मृच्छकटिके
पि दक्खिणे, तुमं पि उत्तरे। जो वि एसो पाआरखण्डो, एवं अहिरुहिअ चन्दणेण समं गदुअ अवलोएमि । एहि चन्दणअ, एहि । इदो दाव । (क) .
(प्रविश्य संभ्रान्तः) चन्दनकः-अरे रे वीरअ विसल्ल-भीमङ्गअ-दण्डकालअ-दण्डसूरप्पमुहा,
आअच्छध वीसत्था तुरिअं जत्तेह लहु करेज्जाह । लच्छी जेण ण रण्णोपहवइ गोत्तन्तरं गन्तुम् ॥ ६ ॥ अवि अ।
उजाणेसु सहासु अ मग्गे णअरीअ आवणे घोसे । तं तं जोहह तुरिअं सङ्का वा जाअए जत्थ ॥ ७ ॥ रे रे वीरअ किं किं दरिसेसि भणाहि दाव वीसद्धम् । भेत्तण अ बन्धणअंको सो गोवालदारअं हरइ ॥ ८॥ कस्सट्टमो दिणअरो कस्स चउत्थो अ वट्टए चन्दो । छट्ठो अ भग्गवगहो भूमिसुओ पञ्चमो कस्स ॥९॥
(क) अरे रे, अरे जय-जयमान-चन्दनक-मङ्गल पुष्पभद्रप्रमुखाः,
किं स्थ विश्रब्धाः यः स गोपालदारको बद्धः ।
भित्त्वा समं व्रजति नरपतिहृदयं च बन्धनं चापि ॥ अरे, पुरस्तात्प्रतोलीद्वारे तिष्ठ त्वम् । त्वमपि पश्चिमे, त्वमपि दक्षिणे, त्वमप्युत्तरे । योऽप्येष प्राकारखण्डः, एतमभिरुह्य चन्दनेन समं गत्वावलोकयामि । एहि चन्दनक, एहि । इतस्तावत् ।
शल्य-भीमाङ्गद-दण्डकाल-दण्डशूरप्रमुखाः। आअच्छधेति । गाथापञ्चकम् । आगच्छत विश्वस्तास्त्वरितं यतत लघु कुरुत । लक्ष्मीर्येन न राज्ञः प्रभवति गोत्रान्तरं गन्तुम् ॥ ६॥ उद्यानेषु सभासु च मार्गे नगर्या आपणे घोषे। तत्तद्योजयत त्वरिता शङ्का वा जायते यत्र ॥ ७ ॥ अरे रे वीरक किं किं दर्शयसि ब्रवी(ब्रू)हि तावद्विश्वस्तम् । मोचयित्वा बन्धनकं कोऽसौ गोपालकं हरति ॥ ८॥ कस्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः । षष्ठश्च भार्ग