________________
मृच्छकटिके
विदूषकः - अरे दासीए पुत्ता, गिम्हे । (क) चेट : – (सहासम् 1) भले, हि हि । (ख)
विदूषकः— (स्वगतम् ।) किं दाणिं एत्थ कहिस्सम् । (विचिन्त्य ।)
भोदु । चारुदत्तं गदुभ पुच्छिस्सम् । ( प्रकाशम् 1) अरे, मुहुत्तअं चिट्ठ । (चारुदत्तमुपसृत्य ।) भो वअस्स, पुच्छिस्सं दाव, कस्सि काले चूआ मोलेन्ति । (ग)
१३८
-
चारुदत्तः — मूर्ख, वसन्ते ।
विदूषकः - (चेटमुपगम्यं ।) मुक्ख, वसन्ते । (घ )
चेट : - दुदिअ दे पण्हं दशम् । शुशमिद्धाणं गामाणं का लक्खअं कलेदि । (ङ)
विदूषकः - अरे, रच्छा । (च)
चेट: – (सहासम् ।) अले, हि हि । (छ)
विदूषकः - भोदु । संसए पडिदहि । ( विचिन्त्य ।) भोदु । चारुदत्तं पुणो वि पुच्छिस्सम् । ( ज ) ( पुनर्निवृत्य चारुदत्तं तथैवदाहरति ।)
(क) अरे दास्याः पुत्र, ग्रीष्मे । (ख) अरे, नहि नहि । -
(ग) किमिदानीमत्र कथयिष्यामि । भवतु । चारुदत्तं गत्वा प्रक्ष्यामि । अरे, मुहूर्तकं तिष्ठ । भो वयस्य, प्रक्ष्यामि तावत्, कस्मिन्काले चूता मुकुलिता भवन्ति ।
(घ) मूर्ख, वसन्ते ।
(ङ) द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणां का रक्षां करोति ।
(च) अरे, रथ्या ।
(छ) अरे, नहि नहि ।
(ज) भवतु । संशये पतितोऽस्मि । भवतु । चारुदत्तं पुनरपि प्रक्ष्यामि ।