________________
ऋषिभाषितटोका
१३९
परस्य पापं कुर्वन् हसति मोहमोहितः, मत्स्य इव गलमिति ग्रीवादीति न, किं स्वामिषं तद् ग्रसन् विनिघातं विनाशं न पश्यति ( ११ ) | | ( १२ ) || परोपघात परो दर्प-मोहमलैरुद्धुर उद्धतो गुणदोषान् न विन्दति यथा वृद्धः सिंह उदपानं गतः प्राणिनो हन्ति विवेकमकृत्वा यदि वा यथा सिंह एकविंशाध्ययनकथितः परं जिघांसते (१३) ॥ (१४) (१५) (१६) (१७) (१८) (१९) || पाषाणेनाऽऽहतः कीवः पक्षिविशेषः क्षिप्रं पाषाणं दशति, मृगारिः सिंह ऊषरं प्राप्य सरउत्पत्तिमेव मार्गति, कीव - सिंहौ निरर्थकं कुरुत इति भावः (२० ) || तथा तेनैव प्रकारेण बालो दुःखी दुःखपीडितो बहिरं वस्तु भृशं निन्दति, न तु दुःखोत्पत्ति-विनाशौ प्राप्नोति सिंह इवेति द्वे पदे अतिरिक्ते (२१) ॥ व्रणं वह्निं कषायान् ऋणं चाऽऽमगं ति रोगं च यद् वाऽप्यन्यद् दुः स्थितं तद् उद्वहन्तोऽनुभवन्तः पीवरं महद दुःखं प्राप्नुवन्ति मानुषाः (२२) || वहिस्स त्ति वह्नेर्ऋणकर्मण: आमकस्स त्ति रोगस्य व्रणस्य च निःशेषं घातिनां यथासंख्यं निवारयितुर्दातुश्चिकित्सकस्य च श्रेय आनन्दो भवति गतमिति, वह्नचादीनि कालेन प्रत्यागमिष्यन्ति यथा द्रुमश्छिन्नोऽपि पुना रोहति ( २३ ) ॥ यथा वह्निर्भस्मच्छन्नो वा यथा रिपुर्गूढक्रोधो वा तथा लीनं गूढं पापकर्म दुःखसन्तानसङ्कटं भवति (२४)।।(२५) (२६) (२७) (२८) । मधुरायणीयमध्ययनम् ।
१६
यस्य खलु भो इन्द्रियाणि विषयाचारा न परिस्रवन्ति द्रवैरिव, स खलु भवत्युत्तमः पुरुषः । तद् परिस्रवणं कथमिति पृच्छा । मनोज्ञेषु शब्देषु रूपेषु गन्धेषु रसेषु स्पर्शेषु श्रोत्र- चक्षुर्नासा तालु त्वग्विषयप्राप्तेषु न सजेत न रज्येत न गृध्येत नाध्युपपद्येत न विनिघातमापद्येत । मनोज्ञेषु शब्दादिषु श्रोत्रादिविषयं प्राप्तेषु सजमानो रज्यमानो गृध्यमानोऽध्युपपद्यमानः सुमनाः सदभिप्रायवांस्तान् आसेवमानो विप्रवहतः पापकर्मणो भवति आदानाय तत् कर्माssददातीत्यर्थः । तस्मात् तेषु मनोज्ञेषु प्रागुक्तेषु न सजमान इत्यादि न सुमना इस्याद्युक्तपापकर्मणा न दुष्येत् । (१) ॥ ( २ )|| वह्निः परिणामतेजः शरीरमाहारं ति आहारेण यथा युनक्ति योगेन कारणेन तथा योगान् विजानीहीन्द्रियाणि तत्प्रयोगांश्च युञ्जतः इति श्लोकस्योत्त-रार्धस्य शङ्कनीयोऽर्थः ( ३ ) || शौर्यायणाध्ययनम् ।
-
१७
यया बन्धनं च मोक्षं च जीवानां च गत्यागतावात्मभावं च जानाति सा विद्या दुःखमोचनी (२)|| इयं विद्या महाविद्या भवति सर्वविद्यानामुत्तमा, यां विद्यां