________________
१३८
ऋषिभाषितटीका नास्त्यस्येति नाङ्गीकरोति तस्माद् मम ददातीत्येवमनयोः श्लोकयोरर्थः सम्यगगत इत्याशामहे (६)।। मैत्रेयभयाल्यध्ययनम् । '
युक्तमयुक्तयोगं न प्रमाणम् । - आत्मना खलु भो आत्मानं समुत्कृष्योन्नमय्य न भवति बद्धचिह्नो राजलक्षणसंयुक्तो नरपतिः, आत्मानं समुत्क्रष्टुं नावश्य तस्य सर्वपूजितत्वात्, तद्वद् विश्वमानितस्य श्रेष्ठिनः स्ववेषविशिष्टस्य । हे श्रमणा ब्राह्मणाश्च, अनुयोगे सत्युक्तस्य हेतुं यदि पृच्छथेत्यर्थः, एवमेव जानीत खलु भो यथा ग्रामे वाऽरण्ये वा, केवले वा ग्रामे न त्वरण्ये यदि कश्चिदिमं लोकमभिनिश्रयेत सेवेत परं वा लोकं देवलोकं प्रणिश्रयेत, न तत् सारवद् उभयोर्लोकयोरप्रतिष्ठितत्वादशाश्वतत्वात् । एष युक्तोपायानामयुक्तयोगः । तदेवोदाहरति यथा अकामको बाहुको मतः स्मृतः, मुक्तकामो ह्यकामकस्तपश्चरते:चरितवान्, अकामकः कालगतः पूर्वकर्मवशान्नरकं प्राप्तः, मनुष्यलोकोपपन्नोऽकामकः प्रवजितस्तपश्चरितवान् कालगतः सिद्धि प्राप्तः सर्वत्राकामकः । सकामकस्तद्वत् , केवलं किं सिद्धि प्राप्त इति प्रश्नः, नेत्युत्तरम् ॥ बाहुकाध्ययनम् ।
- शातं सुख, तस्मादुत्पन्नं दुःख शातदुःस्वम् । किं तेनाभिभूत उताशातदुःखेनाभिभूतो दुःखी दुःखमुदीरयतीति पृच्छा । न शातदुःखेन नाशातदुःखेनेत्युत्तरम् , उदीरणाहेतोनिःसारत्वादित्यर्थः संभाव्यते । अपरा पृच्छा यथा किं दुःखी शातदुःखेनाभिभूतस्योताशातदुःखेनाभिभूतस्य परस्य दुःखिनो दुःखमुदीरयतीति । शाताभिभूतस्येत्युत्तरं दुःखिनोऽभिभवपूर्व सुखीभावात् । पृच्छा च व्याकरणं चेति प्राचीनटिप्पणी । पुनः पृच्छा यथा किं शान्तं बाधारहितं दुःखं दुःख्युदीरयत्युताशान्तमिति । शान्तमेवेत्युत्तरमुदीरितस्योदीरणाया निरर्थकत्वात् । -दुःखेन खलु भो अप्रहीणेनेत्यादि नवमाध्ययनगमेन नेतव्यं कम्म त्ति स्थाने दुःखाभिलापेन (१)। (२) । कन्दस्यैवं सति स्वभावे ध्रुवं निःशङ्क वल्ल्यारोहणं भवति, बीजे समुह्यमानेऽपि अङ्कुरस्यैव संपद् भविष्यति (३)॥(४)(५)॥ पापघाते हतं दुःखं यथा फलं हतं पुष्पघाते कृते, कुतस्तालेफलस्य संभवो विद्वायां सत्यां मूर्धसूच्यां हते, तालपादपस्य शिखरे, तालफलानि द्रुमस्याग्रे पच्यन्त इति प्रसिद्धम् (६)॥(७)। दुःखितो दुःखघातार्थमन्यं कञ्चिच्छरीरिणं पुरुषं दुःखाकृत्वा वेदनां प्रापयित्वा एकस्य दुःखस्य प्रतीकारेणान्यद् दुःख निबध्नातीति विरोधः (८)॥(९) (१०)।