________________
ऋषिभाषितटोका
यावद् यावल्लोकैषणा लोकसम्बन्धस्तावत् तावद् वृत्तैषणा लोभ इति तद्विपरीतश्वालापको द्रष्टव्यः । आणच्च त्ति आज्ञायेतीहासंबद्धत्वात् पूर्वगताध्ययनस्य टिप्पणत्वाच्चानादृतम् । स मुनि.कैषणां च वृत्तैषणां च परिज्ञाय त्यक्त्वा गोपथा गच्छेन्न महापथा राजमार्गेण । -तद् यथा कार्य तदुच्यते : गावः प्रातराशं चरन्ति, इह त्ति स्थाने इव त्ति युक्ततरमिव दृश्यते, एवं मुनिर्गोचर्या-प्रविष्टः सँल्लामे सति नालपेन्न मुदा लपेन्नापि चालाभे क्रोधेन संज्वलेत् (१)॥ पञ्च वनीपका अतिथि-कृपणब्राह्मण-कुक्कुर-श्रमणास्तैः शुद्धां दोषवर्जितां भिक्षां य एषणयैषयेत् तस्य हननदोषविप्रमुक्तस्य लाभाः सुलभा भवन्ति (२)॥ पथां मार्गाणां रूपसम्बद्धामनुरूपां फलापत्तिं च चिन्तयेत् क्रोध-मान-माया-लोभानां पिण्डैषणायामनुभूतानां चात्मानं परं चाधिकृत्य विपाकम् (३)॥ याज्ञवल्कीयमध्ययनम् ।
१३
किमर्थ त्वया लावण्यं मैत्री नास्ति न क्रियत इति बलात् प्रतिबुबोधयिषन्तं कञ्चिच्छ्रावकं प्रति भाषितम् । - नाहं खलु भो आत्मनो विमोचनार्थाय परमभिभविष्यामि, मा भूत् स परोऽभिभूयमानो ममैवाहिताय पापकर्मविपाकायेत्युक्तप्रकारेणाक्षिप्तश्रावकस्य स्यादध्यवसायः । सर्वेषां संसारवासे शान्तानां तुष्टानां गृही श्रावको यदि वा गृहिणां श्रावकाणां बृंहणरतः प्रशंसाप्रियः कर्मोपादानाय भूत्वा तैः प्रत्युक्तः कथमिति कुतोऽर्थे मे हन्तुमिच्छसीति (१)। सा ब्रहणरतिः शान्तस्य करणं नास्ति, शान्तो नैवं करोतीत्यर्थः, किं तु नाशयतो हिंसकस्य करणं भवेत् । नाशयतस्तु भवसंकरः संसारहिण्डनं भविष्यति, तद् बहुधा सुदृष्टं गुरुभिः (२)॥ हिंसितं पुरुषं त्विदं शान्तमबाधायुक्तं कर्मैतेन द्वारेण प्रकारेणोपस्थितं भवति, यथा मयैव पुरः पूर्वभवे यत् कृतं तस्य स परोऽत्र निमित्तमात्रं विपाक कारयितैव भवतीति (३)।(४)॥ यस्य यदस्ति कर्म तद्विपाकेन लुप्यते, यदशान्तमुदीरितं कर्म भवति तस्य न किञ्चिल्लुप्यते उदीरणावशादेव, शान्तात् कमणः किञ्चिल्लुप्यते किञ्चिन्न, शान्तेरसंक्षितत्वात्, विपाकात् पूर्व तु न लुप्यते शान्तं कर्म (५)॥ यत्कारणं भिक्षादिमार्गितस्य किञ्चिदस्ति तेन मम ददाति, यत्कारणं नास्यास्ति किञ्चित् तेनापि मम ददाति स्वधनस्यानङ्गीकारात्, यदि त्वस्य स्याद् यदि स्वधनमङ्गोकुर्यात् ततो मम न दद्यात्
१८.