________________
१३४
ऋषिभाषितटीका पराक्रामेदालस्यं न गच्छेत् (२)॥(३)॥ काममकामकारी परिव्रजेद् अत्तत्ताए त्ति आत्मत्वार्थम् आत्महितार्थ सर्व सावधं परिज्ञाय प्रत्याख्याय निरवद्येन चरितेन परिव्रजेत् (४)। कूर्मापुत्राध्ययनम् ।
आरं ति इहलोके द्विगुणेन द्विगुणपाशेनेव दृढतरं बध्यते जीव इति शेषः, पारं ति परलोक एकगुणेन केवलेन सम्यक्त्वेन । -हे पुरुष, जीवरथस्य शम्यामिवाणिमिव च्छिन्द्धि पापं कर्म, रथशम्या लुप्यमाना गच्छति नश्यति, इत्येवमुत्तमो ग्रन्थच्छेदको विशिष्टो मुनिर्लोकबन्धनं जहाति त्यजति कोशाद् रथनीडाद् आकोल इव । अत्र प्रथम-तृतीयपादयोर्विनिमयो द्वितीयाध्ययनवत् कार्यः (१)।। तस्माद् य एतद् ग्रन्थजालं विविधानि लोकबन्धनानि विज्ञाय दुःख दुःखावहं छित्त्वा संयमे तिष्ठति स खलु मुनिर्दुःखाद विमुच्यते । केतलिपुत्राध्ययनम् ।
यावद् यावज्जन्म तावत् तावत् कर्म । कर्मणा खलु भो प्रजा स्यात् , सम्यक् चरितमनुसृत्योपनिचीयतेऽपचीयते च कर्म ।-कर्मणा खलु भो अग्रहीणेन पुनरपि हस्तादिच्छेदनानि शीर्षदण्डनान्यागच्छत्यनुभवति जीवः, उदीर्णेन तु कर्मणा कुट्टनानीत्यादि, अन्दु त्ति शृङ्खला, तया बन्धनानि, निगडबन्धनानि, सीहपुच्छणाणि त्ति श्रीअभयदेवेन औपपातिकवृत्तौ मेहनत्रोटनमिति व्याख्यातानि, कडग्गिदाहणाई ति कटकेन वेष्टितुं प्रदीपनमिति दशाश्रुतस्कन्धचूर्णिः, शेषं कण्ठ्यम् , केवलं दुःखानि प्रत्यनुभवमानो जीवः संसारसागरमनुपरिवर्तते (१)॥(२)(३)(४)(५)(६)(७)(८)(९)(१०)(११)। उपक्रम उत्कर्षश्च, तथा संक्षोभः संक्षेपः क्षपणं बद्धस्पृष्टनिधत्ताणं ति निहितानां भवति कर्मप्रदेशानाम् , निकाचिते च कर्मणि वेदना पीडा (१२)॥ उत्कृष्यमाणं यथा तोयं सार्यमाणं यथा जलं कर्म संक्षपयेत् , अन्यत्र निदाने परलोकमधिकृत्य फलेप्सुः पापं कर्म शेषमुदीरयति (१३)॥ अल्पा स्थितिः शरीराणां, बहु च पापं दुष्कृतं भवति, पूर्व बध्यते पापं, तस्मात् तपो दुष्करं मतम् (१४)।। योगयुक्तस्य धीमतः पापकर्माणि क्षीयन्ते बव्य ऋद्धयश्च जायन्ते कर्मभागक्षयभूताः (१५)।। यदि कश्चित तपः-संयमप्रयुक्तस्य विमर्दो विरोधो भवति, तदा विद्यौषधिनिपाणेषु दृष्टिवादवस्तुशिक्षागतिषु च तस्य प्रत्ययः (१६)॥ सुकृतेण च दुष्कृतेन च मिश्रेऽपि सति कर्मबन्धने युक्तात्मा साधुः पापं दुःखं क्षपयति यथा मिश्रेऽपि हिताहितमिश्रितेऽपि पुष्पाणां ग्राहे संग्रहे विषवन्ति पुष्पाणि छर्दितानि भवन्ति (१७)॥ सम्यक्त्वं च दयां चैव दुर्लभां