________________
ऋषिभाषितटीका
३
मानात् प्रत्यवतीर्य मानं त्यत्क्वा विनय आत्मानमुपदर्शयेत् ।-(१)।। क्रोधमानाहीणस्यात्मा पर्यायान् जानाति । क्रोधस्थाने शमं सेवते मानस्थाने मार्दवम् (२)।। (३) (४) पुष्पशालपुत्राध्ययनम् ।
मातङ्ग इति ललितविस्तरग्रन्थतृतीयपरिवर्तानुसारेण कस्यचित् प्रत्येकबुद्धस्य नाम । अस्य त्वर्षेबुद्धक्षेत्रं रिञ्चतस्तेजोधातुं च समापद्योल्कैव परिनिर्वाणस्येहाध्ययनस्य गये च पद्ये चानुल्लेखितत्वान् मातङ्गो गज एवेत्यपरिहार्या व्याख्या । गनो मरणार्थ गहनं वनं यातीति प्रसिद्धम् । मातङ्गवदाचरन् श्राद्धो मातङ्गश्राद्धः । गनो यथा तमसि गहन उपरतो मृतस्तथा श्राद्धोऽपि कायभेदाय मरणायैकाक्येव प्रायोपगमं गच्छति । आयति भविष्यत्काले तं देवदानवानुमतं प्रशस्यमित्युदाहरेदुदाहरिष्यति जनः तेनाऽयं खलु भो लोकः सनराऽमरो वशीकृत एवेति मन्ये, तमहं विरतं विरजस्कं वेति ब्रवीमि । हे पुरुष, नारीगणप्रसक्तो मा भूरात्मनश्चाबान्धवः -- हे पुरुषाः, यस्मादारम्भाद् व्रजथ नरकमिति शेषः तस्माद् युद्धशीलो जनोऽपि व्रजति। स्त्रीगृद्धो हिंसकश्चोभी पापकारिणौ कर्मफलं लप्स्यते इति भावः (१)॥ निरङ्कुश इव मातङ्गश्छिन्नरश्मिर्हयोऽपि वा भ्राम्यति, एवं ज्ञान-प्रग्रह-प्रभ्रष्टो विविध प्लवते विनाशं गच्छति नरः (२)॥ अकर्णधारा नौरिव सागरे वायुनेरिता चञ्चला धावते नौरिति द्वितीयपदम तेरिक्तं स्वभावादकोविदा, पुष्पामवाऽऽकाशे मुक्तं स्थापितम् , एवं निराधारः स नरः, पुष्पमिव दृढ-शुल्ब-निबद्धं, एवं दृढसूत्रनिबद्ध इति षष्ठे श्लोकेऽभिहितमिहैवाध्याहार्य नरो बलवन्तं तपोविधिं विहरेदिति विहरतेः सकर्मकः प्रयोगः (३.४) यथा सूत्रमात्रगतिमेव गन्तुकाम एवं सन्मार्ग लप्स्यते स्वभावादकोविदोऽपि (५)। जं तु त्ति अस्य पादस्यार्थासुगमत्वादम्बर इव विहंगम इति पादं मुक्त्वा पष्ठस्य श्लोकस्यानुवादो न दीयते (६)। (७) (८) (९)। विरतो वक्तुं व्यरमद् यदि वा विरजस्क एवाभवद् ऋषिरुग्रतपः । वल्कलचीर्यध्ययनम् ।
सर्व दुःख दुःखावहं, दुःखं सोत्सुकत्वमिच्छा । दुःखी व त्तिः इवेति न, किंतु इवेति । आक्षिप्तं निन्दितं पुरुषं जनवादो न त्याजयेत् तपःसंयमी, समाधिं च विराधयति स हिनस्ति यो रिष्टचर्याम् अपूर्णतपश्चर्या चरति (१)।। यः कश्चिदालस्येन कारणनोत्सुकत्वं न गच्छति तेनापि स सुखी भवति भवतु इत्यर्थः, किं तु परंतु श्रद्धी सधी/मान् वा