________________
३४]
[उत्तराध्ययनसूत्रे-भाग-२ जितेन्द्रियाणामीश्वरो दमीश्वरः, तत्सम्बोधनं हे दमीश्वर ! यतीश्वर ! ईप्सितं-वाञ्छितं मनोरथं त्वरितं-शीघ्रम्, 'तमि' ति त्वं प्राप्नुहि ॥ २५ ॥ पुनराशीर्वचनमाह
नाणेण दंसणेणं, चरित्तेणं तहेव य।।
खंतीए मुत्तीए, वड्ढमाणो भवाहि य ॥ २६ ॥ पुनर्हे स्वाभिंस्त्वं ज्ञानेन दर्शनेन तथैव चारित्रेण, च पुनः क्षान्त्या-क्षमया, च पुनर्मुक्त्या-निर्लोभत्वेन वर्धमानो 'भवाहि' इति भव ॥ २६ ॥
एवं ते रामकेसवा, दसारा य बहूजणा ।
अरिहनेमि वंदित्ता, अइगया बारगापुरिं ॥ २७ ॥ एवममुना प्रकारेण रामकेशवौ, च पुनर्दशापि दशार्हाः, च पुनर्बहवोऽन्ये जनाश्चत्वारो वर्णा अरिष्टनेमि स्वामिनं वन्दित्वा स्तुत्वा नत्वा च द्वारिकापुरीमतिगता-प्रविष्टाः ॥ २७ ॥
सोऊण रायवरकन्ना, पवज्जं सा जिणस्स उ।
नीहासा य निराणंदा, सोगेण य समुच्छया ॥२८॥ सा राजवरकन्योग्रसेननृपपुत्री राजीमती शोकेन समुच्छया-समवसृताऽवष्टब्धा व्याप्ताभूदित्यर्थः । किं कृत्वा ? जिनस्य नेमिनाथस्य प्रव्रज्यां-दीक्षां श्रुत्वा, कथंभूता सा ? निर्हासा निर्गतो हासो यस्याः सा निर्हासा हास्यरहिता, पुनः कीदृशा सा ? निरानन्दाआनन्दरहिता ॥ २८ ॥
राईमई विचिंतेइ, धीरत्थु मम जीवियं ।
जाहं तेणं परिचत्ता, सेयं पव्वइउं मम ॥ २९ ॥ सा राजीमती मनसि विचिन्तयति, मम जीवितं धिगस्तु, याहं तेन नेमिनाथेन परित्यक्ता, अतो मम प्रव्रजितुं-दीक्षां गृहीतुं श्रेयः, न तु गृहे स्थातुं श्रेय इति भावः ॥२९॥
अह सा भमरसन्निभे, कुच्चफणगपसाहिए।
सयमेव लुचई केसे, धिइमंता ववस्सिया ॥३०॥ अथानन्तरंसा राजीमती स्वयमेव केशान् लुञ्चति । कथंभूता सा? धृतिमती धैर्ययुक्ता, पुनः कथंभूता ? व्यवसिता-निश्चला, धर्म कर्तुं स्थिरा, कीदृशान् केशान् ? 'कुच्चफणगपसाहिए' कूर्चफनकप्रसाधितान् कूर्चा गूढकेशोन्मोचको वंशशलाकारचितः केशसंस्करणोपकरणविशेषः, फनको गजदन्तकाष्ठमयः 'कङ्कतकः कूर्चश्च फनकश्च कूर्चफनको, ताभ्यां प्रसाधिताः-संस्कृताः कूर्चफनकप्रसाधितास्तान्, पुनः कीदृशान् ? भ्रमरसन्निभान् भ्रमरवच्छ्यामान् ॥३०॥ १ कांसको।