________________
[ ३३
२२,
रथनेमीयमध्ययनम् ]
युगलम्, पुनः सूत्रकं कटीदवरकम्, चकारादाभरणशब्देन हारादीनि सर्वाङ्गोपाङ्गभूषणानि सारथेर्ददौ ॥ २० ॥
मणपरिणामे य कए, देवा य जहोइयं समोइन्ना ।
सव्वड्ढीए सपरिसा, निक्खमणं तस्स काउं जे ॥ २१ ॥
तस्मिन्नेमिकुमारे मनःपरिणामे चित्ताभिप्राये दीक्षां प्रति कृते सति, लोकान्तिकदेववचनात्सांवत्सरिकदाने दत्ते सति, देवाश्चतुर्विधा यथोचितं यथायोग्यं सर्वद्धय समवतीर्णास्तत्रागताः । किं कर्तुं ? तस्य भगवतो नेमिकुमारस्य निष्क्रमणमहोत्सवं- दीक्षामहिमानं कर्तुं । 'जे' शब्दः पादपूरणे, कीदृशा देवाः ? सपरिषदः, सह तिसृभिः परिषद्भिर्वर्तन्ते इति सपरिषदः परीषत्सहिता इत्यर्थः ॥ २१ ॥
देवमणुस्सपरिवुडो, सिबियारयणं तओ समारूढो ।
निक्खिमिय बारगाओ, रेवयंमि ठिओ भयवं ॥ २२ ॥
ततोऽनन्तरं नेमिकुमारो भगवान् ज्ञानवान् दीक्षावसरज्ञो देवैर्मनुष्यैः परिवृतो देवमनुष्यपरिवृतः शिबिकारत्नमुत्तरकुरुनामकं समारूढो द्वारिकापुरितो निष्क्रम्य-निःसृत्य रेवते - रैवताचले स्थितः ॥ २२ ॥
उज्जाणे संपत्तो, उन्नो उत्तमाओ सीयाओ ।
साहस्सीए परिवुडो, अह निक्खमई उचित्ताहिं ॥ २३ ॥
तत्र रैवताचले उद्याने सहस्त्राम्रनाम्नि वने सम्प्राप्तः । पुनरुत्तमायाः- प्रधानायाः शिबिकाया उत्तीर्णः सहस्रेण परिवृत्तः- प्रधानपुरुषसहस्रेण संयुतः सन्, अथ चित्रायांचित्रा नक्षत्रे निष्क्रामति-दीक्षां गृह्णाति, पञ्चमहाव्रतोच्चारणं करोति ॥ २३ ॥
अह सो सुगंधगंधिए, तुरियं मउयकुंचिए । सयमेव लुंचई केसे, पंचमुट्ठीहिं समाहिए ॥ २४ ॥
-
अथ पञ्चमहाव्रतोच्चारणानन्तरं स नेमिनाथः स्वयमेवात्मनैव त्वरितं केशान् पञ्चमुष्टिभिः कृत्वा लुञ्चते । कीदृशः सन् ? समाहितो ज्ञानदर्शनचारित्ररूपसमाधियुक्तः सन्; कीदृशान् केशान् ? सुगन्धगन्धिकान् स्वभावतः सुरभिगन्धान्, पुनः कीदृशान् ? मृदुककुञ्चितान्, मृदुकाश्च ते कुञ्चिताश्च मृदुककुञ्चितास्तान् सुकुमालान्, कुटिलान् ॥ २४ ॥ वासुदेवो य तं भणड़, लुत्तकेसं जिइंदियं । इच्छियमणोरहं तुरियं, पावेसू तं दमीसर ॥ २५ ॥
तदा वासुदेवः कृष्णः, चकारात् समुद्रविजयादिनृपगणोऽपि तं नेमिनाथं जितेन्द्रियम्, पुनर्लुप्तकेशं कृतलोचमिति वचनं भणति इत्याशीर्वादवाक्यं ददति - भो दमीश्वर ! दमिनां