________________
२६२]
[ उत्तराध्ययनसूत्रे - भाग - २ पल्यासङ्ख्यभागायुषः, चतुःषष्टिपृष्टकरण्डाः, चतुर्थभक्ताहाराभिलाषवन्तः । एकोनाशीतिदिनकृतापत्यपालना:, तेषां द्वीपानां नामायामविस्तारपरिध्यादिविचारस्तु क्षेत्रसमासबृहट्टीकातोऽवसेयः ॥ १९९॥
संमुच्छिमाण एसेव, भेओ होइ आहियो ।
लोगस्स एगदेसंमि, ते सव्वे वि वियाहिया ॥ २०० ॥
सम्मूर्छिमानां ह्येष एव भेदः, यत्कर्मभूम्यादिसमुत्पन्नानां गर्भजानां वातपित्तादिषु ते चतुर्दशभेदैः सम्भवन्ति अङ्गुलासङ्ख्येयभागमात्रावगाहनास्ते सर्वे मनुष्याः सम्मूर्छिमा गर्भजाश्च लोकैकदेशे व्याख्याताः ॥ २०० ॥
संतई पप्पऽणाईया, अपज्जवसियावि य ।
ठि पडुच्च साईया, सपज्जवसियावि य ॥ २०१ ॥
सन्ततिं प्राप्यते सम्मूर्छिमा गर्भजाश्च मनुष्या अनादयोऽपर्यवसिताश्चापि वर्तन्ते । स्थितिमाश्रित्य सादयः सपर्यवसिताश्चापि सन्ति ॥ २०९ ॥
पलिओवमाइ तिन्नेओ, उक्कोसेण वियाहिया ।
आउठिई मणुआणं, अंतोमुहुत्तं जहन्नियं ॥ २०२ ॥
मनुजानां गर्भजानां त्रीणि पल्योपमान्युत्कृष्टेनायुः स्थितिर्व्याख्याता, जघन्यिका चान्तर्मुहूर्तं स्थितिर्ज्ञेया ॥ २०२ ॥
अथ कायस्थितिमन्तरकालं चाह द्वाभ्यां गाथाभ्यां
पलिओवमाइं तिन्नेओ, उक्कोसेण तु' साहिया । पुव्वकोडी पुहुत्तेणं, अंतोमुहुत्तं जहन्नियं ॥ २०३ ॥
काठई मणुआणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं ॥ २०४ ॥
मनुजानां गर्भजानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकान्युत्कृष्टेन काय
स्थितिर्व्याख्याता जघन्यिका चान्तर्मुहूर्तं स्थितिर्व्याख्याता, तेषां गर्भजानां मनुजानां कालस्यान्तरमुत्कृष्टमनन्तकालं, जघन्यकमन्तर्मुहूर्तं कालान्तरं ज्ञेयम् ॥ २०३ २०४ ॥
एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ २०५ ॥
१ वियाहिया - अन्यसंस्करणे ॥