________________
१२]
[ उत्तराध्ययनसूत्रे-भाग-२ न तं अरी कंठछित्ता करेइ, जं से करे अप्पणिया दुरप्पा ।
से णाहई मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ॥४८॥ __ हे राजन्नात्मीया दुरात्मता-स्वकीया दुष्टाचारप्रवृत्तिर्यमनर्थं करोति, तमनर्थ कण्ठे छेत्ता-कण्ठच्छेदकोऽरिरपि न करोति । प्राणापहारकाद्वैरिणोऽपि दुरात्मता दुष्टा । दुष्टाचारप्रवृत्त आत्मान एव घातकृदिति हार्दम् । स च दुष्टाचारप्रवृत्त आत्मा मृत्युमुखं प्राप्तः सन् ‘णाहई' इति ज्ञास्यति, स्वयमेवेति शेषः । केन ? पश्चादनुतापेन, हा ! मया दुष्टं कर्म कृतमिति पश्चात्तापेन मरणसमये ज्ञास्यति । कीदृशः स दुरात्मा ? दयाविहीनः ॥ ४८ ॥ निरट्ठिया नग्गरुई उ तस्स, जे उत्तमढे विवज्जासमेई । इमेवि से नत्थि परेवि लोए, दुहओ वि से झिज्झइ तत्थ लोए ॥४९॥
हे राजन् ! य उत्तमार्थे विपर्यासमेति, तस्य नाग्न्यरुचिर्नान्ये - श्रामण्ये रुचिरिच्छा निरर्थिका । उत्तमः प्राधानोऽर्थो मोक्षो यस्मात्स उत्तमार्थः, तस्मिन्नुत्तमार्थे , अर्थात्पर्यन्तसमयाराधनरूपे जिनाज्ञाराधने वैपरीत्यं प्राप्नोति, दुरात्मत्वे सुन्दरात्मत्वज्ञानं प्राप्नोति, तस्य नग्नत्वादिरुचिनिर्वस्त्रादिक्लेशवाञ्छा निष्फला । मिथ्यात्विनो हि कष्टं निष्फलम्, यतो ह्यन्यस्य पुरुषस्य तु किञ्चित्फलं स्यादेव, परंतु मिथ्यात्विनो नग्नत्वरुचेराद् द्रव्यलिङ्गिनोऽयं लोको नास्ति, लोचादिनग्नत्वादिकष्टसेवनादिहलोकसुखमपि नास्ति, पुनस्तस्य दव्यलिङ्गिनः संयमविराधनातः परलोकः-परलोकसुखमपि नास्ति, कुगतिग-मनादुःखं स्यात्, तत्रोभयलोकाऽभावे सति स धर्मभ्रष्टो द्विधाप्यैहिकपारलौकिकसुखाऽभावेनोभयलोकसुखयुक्तानरानवलोक्योभयलोकसुखाद्भ्रष्टं मां धिगिति चिन्तया 'झिज्झइ' इति क्षीयते - जीर्णो भवति । मनसि दूयते इत्यर्थः ॥ ४९ ॥
एमेवऽहाछंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं । कुररी इवा भोगरसाणुगिद्धा, निरटुसोया परियावमेइ ॥५०॥
एवमेवामुना प्रकारेण महाव्रतविराधनादिप्रकारेणैव यथाछन्दः कुशीलरूपः स्वकीयरुचिरचिताचारः कुत्सितशीलस्वभावः साधुर्जिनोत्तमानां-तीर्थकराणां मार्ग विराध्य परितापं पश्चात्तापमेति-प्राप्नोति । क इव ? भोगरसानुगृद्धा 'कुररी पक्षिणीव, भोगानां जिह्वास्वाददायकानां मांसानां रसेऽनुगृद्धा लोलुपा भोगरसानुगृद्धा । पुनः कीदृशा कररी ? निरसोया, निरर्थकः शोको यस्याः सा निरर्थशोका । यथा हि मांसरसगृद्धा पक्षिणी अन्येभ्यो महाबलेभ्यो पक्षिभ्यो विपत्तिं प्राप्य शोचते, तद्विपत्तेः प्रतीकारमनवलोकयन्ती पश्चात्तापं प्राप्नोति, तथा संयमविराधको विषयाभिलाषीन्द्रियसुखार्थी साधुर्लोकद्वयानर्थं प्राप्नोति । ततोऽस्य स्वपरित्राणासमर्थत्वेनाऽनाथत्वमिति भावः ॥५०॥ १ क्रौंच (मादा पक्षी)