________________
. महानिर्ग्रन्थीयमध्ययनम् ]
२०,
विपरीतवृत्त्या गृहीतं शस्त्रं हन्ति, एवमेवानेनैव दृष्टान्तेन, महाविषकुगृहीतशस्त्रदृष्टान्तेन विषयैरिन्द्रियसुखैरुपपन्नो विषयोपपन्नो विषयसुखाभिलाषयुक्तो धर्मोऽपि हन्ति । पुनः सविषयो धर्मोऽविपन्नवेताल इव हन्ति, मन्त्रादिभिरकीलितः स्फुरद्वलो मन्त्रयन्त्रैरनिवारितबलो वेतालो - महापिशाचो मारयति, तथा विषयसहितो धर्मोऽपि मारयतीत्यर्थः ॥ ४४ ॥
जे लक्खणं सुविणं पउंजमाणे, निमित्तकोऊहलसंपगाढे । कुहेडविज्जासवदारजीवी, न गच्छई सरणं तंमि काले ॥ ४५ ॥
[ ११
यः साधुर्लक्षणं प्रयुञ्जान:- सामुद्रोक्तं स्त्रीपुरुषशरीरचिन्हं शुभाशुभसूचकं प्रयुङ्क्ते गृहस्थानां पुरतो वक्ति । पुनर्यः साधुः 'सुविण' स्वप्नविद्यां प्रयुञ्जानो भवति, स्वप्नानां फलाफलं वक्ति । पुनर्यः साधुर्निमित्तकौतूहलसम्प्रगाढो भवति, निमित्तं च कौतूहलं च निमित्तकौतूहले, तयोः सम्प्रगाढोऽत्यन्तासक्तः स्यात्, तत्र निमित्तं भूकम्पोल्कापातकेतूदयादि, कौतूहलं कौतुकं पुत्रादिप्राप्त्यर्थं स्नानभेषजौषधादिप्रकाशनम्, उभयत्र संरक्तो भवति । पुनर्यः साधुः कुहेटकविद्याश्रवद्वारजीवी भवति, कुहेटका विद्याः कुहेटकविद्या । अलीकाश्चर्यविधायिमन्त्रतन्त्रयन्त्रज्ञानात्मिकाः, ता एवाश्रवद्वाराणि, तैर्जीवितुमाजीविकां कर्तुं शीलं यस्य स कुहेटकविद्याश्रवद्वारजीवी, एतादृशो यो भवति । हे राजन् ! परं तस्मिन् काले-लक्षणस्वप्ननिमित्तकौतूहलकुहेटकविद्याश्रवद्वारोपार्जितपातकफलोपभोगकाले साधुः शरणं त्राणं दुष्कृतरक्षाक्षमं न गच्छति न प्राप्नोति, तं साधुं कोऽपि दुःखान्नरकतिर्यग्योन्यादौ न त्रायते इत्यर्थः ॥ ४५ ॥
-
तमंतमेणेव उ से असीले, सया दुही विप्परियासुवेई । संधावई नरगतिरक्खजोणि, मोणं विराहित्तु असारूवे ॥ ४६ ॥
तु पुनः स द्रव्यमुण्डोऽसाधुरूपो मौनं विराध्य - साधुधर्मं दूषयित्वा नरकतिर्यग्योनिं सन्धावति-सततं गच्छति । पुनः सोऽशीलः कुशीलो विपर्यासमुपैति, तत्त्वेषु वैपरीत्यं प्राप्नोति, मिथ्यात्वमूढो भवतीति भावः । कीदृशः सः ? तमस्तमसैव सदा दुःखी, अतिशयेन तमस्तमस्तमः, तेन तमस्तमसैवाऽज्ञानमहान्धकारेणैव संयमविराधनाजनितदुःखसहितः ॥ ४६ ॥ उद्देसिंयं कीयगडं नियागं, न मुच्चई किंचि अणेसणिज्जं । अग्गीव वा सव्वभक्खी भवित्ता, इओ चुओ गच्छई कट्टु पावं ॥ ४७ ॥
पुनर्यः साधुवेश उद्देशिकं दर्शनिन उद्दिश्य कृतमुद्देशिकमाहारम्, नित्यकं नित्यपिण्डं गृहस्थस्य गृहे नियतपिण्डम्, एतादृशं सदोषमाहारमनेषणीयं साधुनाऽग्राह्यं न मुञ्चति, जिह्वालाम्पट्येन किमपि न त्यजति, सर्वमेव गृहणाति, सोऽग्निरिव सर्वभक्षीभूय हरितशुष्यप्रज्वालको वैश्वानर इव भूत्वा, प्रासुकाहारं भुक्त्वा, इतश्च्युतो मनुष्यभवाच्च्युतः कुगतिं व्रजति । किं कृत्वा ? पापं कृत्वा, संयमविराधनां विधाय ॥ ४७ ॥