________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२२७ ___ यः पुनः पुद्गलो गन्धतो दुरभिर्दुर्गन्धो भवति, स च पुद्गलो वर्णतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, सुगन्धपुद्गलवदुर्गन्धपुद्गलोऽपि ज्ञेयः, दुर्गन्धविषया अप्येतावन्त एव, ततश्च गन्धद्वयेन भङ्गानां षट्चत्त्वारिंशत् (४६)॥ २८ ॥
अथ रसपुद्गलानां भेदानाहरसओ तित्तओ जे उ, भइए से उ वन्नओ।
गंधओ फासओ चेव, भइए संठाणओवि य ॥ २९ ॥ यः पुद्गलो रसतस्तीक्ष्णो भवति, स पुद्गलो वर्णतो गन्धतः स्पर्शतः संस्थानतश्च भाज्यः । यत्र पुद्गले एकस्तीक्ष्णो रसो भवति, तत्र वर्णानां मध्ये एकः कश्चिद्वर्णो भवति, सुगन्धदुर्गन्धयोरेकः कश्चिद्गन्धो भवति, स्पर्शानामष्टानां मध्येऽन्यतरः कश्चित्स्पर्शो भवति, संस्थानानां मध्येऽन्यतरदेकं सस्थानं भवति । इह तिक्तेन भङ्गानां विंशतिः ॥२९॥ अथ कटुकरसभेदानाह
रसओ कडुए जे उ, भइए से उ वन्नओ ।
गंधओ फासओ चेव, भइए संठाणओवि य ॥ ३० ॥ यः पुद्गलो रसतः कटुको भवति, स पुद्गलस्तिक्तपुद्गलवद्वर्णतो गन्धतः स्पर्शतः संस्थानतश्च भाज्यः ॥ ३० ॥
रसओ कसाओ जे उ, भइए से उ वन्नओ ।
गंधओ फासओ चेव, भइए संठाणओवि य ॥३१॥ यः पुद्गलो रसतः कषायो भवति, स पुद्गलो वर्णतो गन्धतः स्पर्शतश्च भाज्यः, संस्थानतश्चापि भाज्यः ॥ ३१॥
रसओ अंबिले जे उ, भइए से उ वन्नओ।
गंधओ फासओ चेव, भइए संठाणओवि य ॥ ३२ ॥ यः पुद्गलो रसत आम्लो भवति, स पुद्गलो वर्णतो गन्धतः स्पर्शतः संस्थानतश्च भाज्यः ॥ ३२ ॥ ... रसओ महूरए जे उ, भइए से उ वन्नओ ।
गंधओ फासओ चेव, भइए संठाणओवि य ॥ ३३ ॥ यः पुद्गलो रसतो मधुरः शर्करातुल्यो भवति, स पुद्गलो वर्णतो गन्धतः स्पर्शतश्च भाज्यः, तथा संस्थानतोऽपि भाज्यः ॥३३ ॥एवं रसपञ्चकसंयोगे शतं(१००) भङ्गाः इति,