________________
२२६]
. [ उत्तराध्ययनसूत्रे-भाग-२ अथ रक्तस्य भेदानाह
वण्णओ लोहिए जे उ, भइए से उ गंधओ।
रसओ फासओ चेव, भइए संठाणओवि य ॥२४॥ यः पुनः पुद्गलो वर्णतो लोहितो भवति, हिङ्गलसदृशो भवति, सोऽपि पूर्वोक्तविधिना गन्धतो रसतः स्पर्शतः संस्थानतो भाज्यः, तदा सोऽपि विंशतिविधो भवति ॥ २४ ॥ अथ पीतस्य भेदानाह
वण्णओ पीयए जे उ, भइए से उ गंधओ ।
रसओ फासओ चेव, भइए संठाणओवि य ॥२५॥ यः पुनः पुद्गलो वर्णतः पीतः स्वर्णवर्णः, स पुद्गलोऽपि गन्धतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, तदा विंशतिविधो भवति ॥ २५ ॥ अथ शुक्लस्य भेदानाह
वण्णओ सुक्किले जे उ, भइए से उ गंधओ।
रसओ फासओ चेव, भइए संठाणओवि य ॥२६॥ __यः पुनः पुद्गलो वर्णतः शुक्लश्चन्द्रसदृशो भवति, सोऽपि पुद्गलो गन्धतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, तदा विंशतिविधो भवति । एवं पञ्चभिर्वर्णैर्विशत्या गुणितैः शतं (१००) भवति ॥ २६ ॥ इति वर्णभेदानुक्त्वा गन्धपुद्गलभेदानाह
गंधओ जे भवे सुब्भी, भइए से उ वन्नओ।
रसओ फासओ चेव, भइए संठाणओवि य ॥२७॥ यः पुद्गलो गन्धतः सुरभिश्चन्दनपरिमलादिवत् सुगन्धो भवति, स पुद्गलो वर्णतो रसतः स्पर्शतश्च भाज्यः । तथा संस्थानतश्च भाज्यः । कोऽर्थः ? सुगन्धपुद्गले पञ्चानां वर्णानां मध्येऽन्यतरकेचिद्वर्णा भवन्ति । रसानामपि पञ्चानां मध्ये केचिदसा भवन्ति । एवं स्पर्शानामष्टानां मध्ये केचित्स्पर्शा भवन्ति । संस्थानानां पञ्चानांमध्येऽन्यतरत्परिमण्डलादिसंस्थानमपि भवति । इह रसादयोऽष्टादश, ते च पञ्चभिर्वर्णैर्मीलितास्त्रयोविंशतिर्भवन्ति ॥२७॥
गंधओ जे भवे दुब्भी, भइए से उ वनओ। रसओ फासओ चेव, भइए संठाणओवि य ॥२८॥