________________
७६
अध्ययन. १४ anananananupamananenananan nine
खणमेत्तसोक्खा बहुकालदुक्खा, पगामदुक्खा अणिगामसोक्खा । संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥१३॥ परिव्वयन्ते अणियत्त कामे, अहो य राओ परितप्पमाणे । अण्णप्पमत्ते धणमेसमाणे, पप्पोत्ति मच्चुं पुरिसे जरं च ॥१४॥ इमं च मे अत्थि इमं च णत्थि, इमं च मे किच्च इमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंति ति कहं पमाओ ॥१५॥ धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो, तं सब्दसाहीणमिहेव तुभं ॥१६॥ धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहि चेव । समणा भविस्सामु गुणोहधारी, बर्हिविहारा अभिगम्म भिक्खं ॥१७॥ जहा य अग्गी अरणीउऽसन्तो, खीरे घयं तेल्लमहा तिलेसु । एमेव जाया सरीरंमि सत्ता, संमुच्छई णासइ णावचिट्टे ॥१०॥
क्षणमात्रसौख्या बहुकालदुःखाः प्रकामदुःखा अनिकामसौख्याः। संसारमोक्षस्य विपक्षभूताः खानिरनर्थानां तु कामभोगाः ॥१३॥ परिव्रजन्ननिवृत्तकामोऽति च रात्रौ च परितप्यमानः । अन्नप्रमत्तो (अन्यप्रमत्तो) धनमेषमाणः प्रामोति मृत्यु पुरुषो जरां च ॥१४॥ इदं च मेऽस्तीदं च नास्तीदं च मे कृत्यमिदमकृत्यं । तमेवमेव लालप्यमानं हरा हरन्तीति कथं प्रमादः ॥१५॥ धनं प्रभूतं सह स्त्रीभिस्स्वजनास्तथा कामगुणाः प्रकामाः। तपः कृते तप्यते यस्य लोकस्तत्सर्वं स्वाधीनमिहेव युवयोः ॥१६॥ धनेन किं धर्मधुराधिकारे स्वजनेन वा कामगुणैश्चैव । श्रमणौ भविष्यावो गुणौधधारिणौ बहिर्विहारावभिगम्य मिक्षाम् ॥१७॥ यथा चानिररणितोऽसन् क्षीरे घृतं तैलमथ तिलेषु । एवमेव जातौ शरीरे सत्वासंमुर्च्छन्ति नश्यन्ति नावतिष्ठन्ते ॥१८॥