SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७८ गच्छाचारपइण्णयं वीतरागैर्भणितं-कथितं तथा सम्यग्-अवितथं भाषेत्-प्ररूपयेदिति । गाथाछन्दः ||३३।। अथ प्रमादवतोऽप्यवितथप्ररूपणे महत्फलं दर्शयन्नाहओसन्नो वि विहारे, कम्मं सोहेइ सुलभबोही य । चरणकरणं विसुद्धं, उववूहिंतो परूविंतो ।।३४ ।। अवसन्नोऽपि विहारे, कर्म शोधयति सुलभबोधिश्च । चरणकरणं विशुद्धं उपबृंहयन् प्ररूपयन् ॥३४॥ व्याख्या-अवसन्नोऽपि-शिथिलोऽपि क्व ? विहारे मुनिचर्यायां कर्मज्ञानावरणादि शोधयति-शिथिलीकरोतीत्यर्थः, सुलभा बोधिःजिनधर्मप्राप्तिरूपा यस्यासौ सुलभबोधिः, एवंविधश्च प्रेत्यः स्यादिति शेषः, किं कुर्वन् ! 'चरणकरणं विसुद्धं उववूहंतो परूविंतोत्ति चरणंसप्ततिभेदं मूलगुणरूवं करणं-सप्ततिभेदमेवोत्तरगुणरूपं चरणं च करणं चेति समाहारद्वन्द्वे चरणकरणं तत् विशुद्धं-नि:कलङ्कमुपबृंहयन्-प्रशंसयन् प्ररूपयंश्च-यथावस्थितं प्रतिपादयन्निति । अत्र चरणकरणस्वरूपं यथा'वय ५ समणधम्म १० संजम १७ वेयावच्चं च १० बंभगुत्तीओ ९ । णाणाइतियं ३ तव १२ कोह-निग्गहाई ४ चरणमेयं ।।१।। पिंडविसोही ४ समिई ५, भावण १२ पडिमा १२ य इंदियनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३, अभिग्गहा ४ चेव करणं तु ।।२।। एतयोः क्रमेण व्यक्तिः, सव्वाओ पाणाइवायाओ वेरमणं १, सव्वाओ मुसावायाओ वेरमणं २, सव्वाओ अदिन्नादाणाओ वेरमणं ३, सव्वाओ मेहुणाओ वेरमणं ४, सव्वाओ परिग्गहाओ वेरमणं ५, इति व्रतानि । 'दसविधे समणधम्मे पं० तं० खंती १, मुत्ती २, अज्जवे ३, मद्दवे ४, लाघवे ५, सच्चे ६, संजमे ७, तवे ८, चियाए ९, बंभचेरवासे १० । क्रोधजयः १, निर्लोभता २, मायात्यागः ३, अहंकारत्यागः ४, परिग्रह त्यागः ५, सत्यं ६, (संयमः-) प्राणातिपात
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy