________________
गच्छाचारपइण्णयं तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ ।
आणं अइक्कमंतो, सो काउरिसो न सप्पुरिसो ।।२७।। तीर्थकरसमः सूरिः सम्यग् यो जिनमतं प्रकाशयति । आज्ञामतिक्रामन् स, कापुरुषः न सत्पुरुषः ।।२७||
व्याख्या-स सूरिस्तीर्थकरसमः सर्वाचार्यगुणयुक्ततया सुधर्मादिवत् तीर्थकरकल्पो विज्ञेयः, न च वाच्यं चतुस्त्रिंशदतिशयादिगुणविराजमानस्य तीर्थकरस्योपमा सूरेस्तद्विकलस्यानुचिता, यथा तीर्थकरोऽर्थं भाषते एवमाचार्योऽप्यर्थमेव भाषते, तथा यथा तीर्थकर उत्पन्नकेवलज्ञानो भिक्षार्थं न हिण्डते एवमाचार्योऽपि भिक्षार्थं न हिण्डते, इत्याद्यनेकप्रकारैस्तीर्थकरानुकारित्वस्य सर्वयतिभ्योऽतिशायित्वस्य परमोपकारित्वादेश्च ख्यापनार्थं तस्याः न्यायतरत्वात् । किञ्च-श्रीमहानिशीथपञ्चमाध्ययनेऽपि भावाचार्यस्य तीर्थकरसाम्यमुक्तम् । यथा-'से भयवं ! किं तित्थयरसंतिअं आणं नाइक्कमिज्जा, उदाहु आयरिअसंतिअं ? गोअमा ! चउव्विहा आयरिया भवंति, तं० नामायरिआ ठवणायरिया दव्वायरिया भावायरिया, तत्थ णं जे ते भावायरिआ ते तित्थयरसमा चेव दट्ठव्वा, तेसिं संतिअं आणं नाइक्कमेज्ज त्ति स कः यः सम्यग्-यथास्थितं जिनमतं-जगत्प्रभुदर्शनं नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतरूपनयसप्तकात्मकं प्रकाशयति-भव्यानां दर्शयतीत्यर्थः । तथा आज्ञां-तीर्थकरोपदेशवचनरूपां अतिक्रामन्-वितथप्ररूपणादिनोल्लङ्घयन् स सूरिः कापुरुषः पुरुषाधमः, न सत्पुरुषो-न प्रधानपुरुष इति । इह चाज्ञोल्लङ्घिनः कापुरुषत्वमात्रमैहलौकिकं फलं, पारलौकिकं तु तत्तदनेकदुस्सहदुःखसन्ततिसंवलितमनन्तसंसारित्वं श्रीमहानिशीथपञ्चमाध्ययनोक्तसावद्याचार्यस्येव ज्ञेयम् । तथाहि-अस्या ऋषभादिचतुर्विंशतिकायाः प्रागनन्तकालेन याऽतीता चतुर्विंशतिका, तस्यां मत्सदृशः सप्तहस्ततनुर्धर्मश्रीनामा चरमतीर्थंकरो बभूव । तस्मिंश्च तीर्थकरे सप्ताश्चर्याणि अभूवन् । असंयतपूजायां