________________
गच्छाचारपइणयं कुशास्त्रसंस्कारात् हिंसादिष्वधर्म्मस्वरूपेषु ग्रं० १००० धर्म्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः ३, मरणमेवान्तो मरणान्तः आमरणान्तात् आमरणान्तमसञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः ४ । इह चार्त्तरौद्रे परिहार्यतया साधुविशेषणे धर्शुक्ले त्वासेव्यतयेति २ । 'धम्मज्झाणे चउव्विहे चउपडोयारे पं० तं० आणाविजए १, अवायविजए २, विवागविजए ३, संठाणविजए ४ ।' 'चउपडोयारे'त्ति चतुर्षु भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतारःसमवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुःप्रत्यवतारमिति, आज्ञा- जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वात् आणाविजयं आज्ञागुणानुचिन्तनमित्यर्थः एवं शेषपदान्यपि, नवरं अपाया रागद्वेषादिजन्या अनर्थाः, विपाकः - कर्म्मफलं, संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः ।
५३
'धम्मस्स णं झाणस्स चत्तारि लक्खणा पं० तं० आणारुई १ निसग्गरुई २ उवदेसरुई ३ सुत्तरुई ४ । आ० निर्युक्त्या स्तत्त्वश्रद्धानं १, नि० स्वभावत एव तत्त्वश्रद्धानं २, उ० साधूपदेशात् तत्त्वश्रद्धानं ३, आगमतस्तत्वश्रद्धानं ४ | धम्मस्स णं झाणस्स चत्तारि आलंबणा पं० तं० वायणा १ पुच्छणा २ परियट्टणा ३ धम्मका ४ । आलम्बनानि धर्म्मध्यानसौधशिखरारोहणार्थं यान्यालम्ब्यन्ते - आश्रीयन्ते तान्यालम्बनानि वाचनादीनि ४ ‘धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० अणिच्चाणुप्पेहा १ असरणाणुप्पेहा २ एकत्ताणुप्पेहा ३ संसाराणुप्पेहा ४ ।' अनित्यत्वाशरणत्वैकत्वसंसारानुप्रेक्षाः प्रतीताः । 'सुक्कज्झाणे चउव्विहे चउपडोयारे पं० तं० पहुत्तवियक्के सवियारी १, एगत्तवियक्के अवियारी २, सुहुमकिरिए अपडिवाई ३, समुच्छिन्नकिरिए अनियट्टी ४ । पृथक्त्वेनएकद्रव्याशश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्कं, तथा विचारोऽर्थाद् व्यञ्जने व्यञ्जनादर्थे मनः प्रभृतियोगानां चान्यस्मादन्यतरस्मिन्