SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं ... ५२ गच्छसमुदायः ८, गणः-कुलानां समुदायः ९, संघो-गणसमुदायः १० । ‘से किं तं सज्झाए ? २ पंचविहे पं० त० वायणा १ पडिपुच्छणा २ परियट्टणा ३ अणुप्पेहा ४ धम्मकहा ५, से तं सज्झाए । से किं तं झाणे? २ चउविहे पं० अट्टज्झाणे १, रुद्दज्झाणे २, धम्मज्झाणे ३, सुक्कज्झाणे ४. अट्टज्झाणे चउविहे पं० तं० अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगस्सतिसमन्नागते आवि भवति १, मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमन्नागते आवि भवति २, आयंकसंपओगसंपउत्ते तस्स विप्पओगस्सतिसमन्नागए आवि भवइ ३, परिजुसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमन्नागए आवि भवइ ४ ।' अमनोज्ञो-ऽनिष्टो यः शब्दादिस्तस्य यः सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो यः स तथा, तथाविधः सन् तस्यामनोज्ञस्य शब्दादेर्विप्रयोगस्मृतिसमन्वागतश्चापि भवति, वियोगचिन्तानुगतः स्यात्, चापीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असाबार्तध्यानं स्यादिति शेषः, धर्मधर्मिणोरभेदादिति १ । तथा मनोज्ञंधनादि 'तस्सत्ति मनोज्ञस्य धनादेः 'अविप्पओ०' व्यक्तं, नवरं आर्तध्यानमसावुच्यत इति वाक्यशेषः २ । आतङ्को-रोगः तस्यातङ्कस्य २, जुषी प्रीतिसेवनयोरिति वचनात्सेवितः प्रीतो वा यः कामभोगः-शब्दादिभोगो मदनसेवा वा तस्य कामभोगस्य ४ । 'अट्टस्स णं ज्ञाणस्स चत्तारि लक्खणा पं० तं० कंदणया १ सोयणया २ तिप्पणया ३ विलवणया ४ ।' कं० महता शब्देन विरवणं १, सो० दीनता २, ति० तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं ३, विलपनता पुनः पुनः क्लिष्टभाषणमिति ४ । १ 'रुद्दे झाणे चउविहे पं० तं० हिंसाणुबंधी १, मोसाणुबंधी २, तेणाणुबंधी ३, सारक्खणाणुबंधी ४, रुद्दस्स णं झाणस्स चत्तारि लक्खणा पं० तं० ओसन्नदोसे १, बहुदोसे २, अन्नाणदोसे ३, आमरणंतदोसे ४ ।' ओसन्नेनबाहुल्येनानुपरतत्वेन दोषो हिंसानृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोषः १, बहुष्वपि-सर्वेष्वपि हिंसादिषु दोषः-प्रवृत्तिलक्षणो बहुदोषः २, अज्ञानात्
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy