________________
गच्छाचारपइण्णयं
१६२
एयस्स वित्थरो जीयकप्पाउ णेउ त्ति । त्रीण्यपि गाथाछन्दांसि ७२ । ७३ । ७४ ।।
अथ वृत्तसप्तकेन पृथिव्यादिषड्जीवघटनामाश्रित्य प्रस्तुतमेवाहपुढविदगअगणिमारुअ-वाउवणस्सइतसाण विविहाणं । मरणंते विन पीडा, कीरइ मणसा तयं गच्छं ।। ७५ ।। पृथिदकाग्निमारुत-वायु वनस्पतित्रसानां विविधानाम् । मरणान्तेऽपि न पीडा क्रियते मनसा सको गच्छः ॥७५॥
व्याख्या - पृथिवी च पृथ्वीकायः, दकं च- उदकं, अग्निश्च वह्निः, मारुतवायुश्च म्रियन्ते क्षुद्रजन्तवोऽनेनेति मरुत् मरुदेव मारुतः स चासौ वायुः- अतिचञ्चलत्वेन क्षुद्रसत्त्वोपद्रवकारी समीरणः, वनस्पतिश्चप्रत्येकसाधारणरूपः, त्रसाश्चद्वित्रिचतुःपञ्चेन्द्रियरूपाः ते तथा तेषां विविधानां-अनेकप्रकाराणां पीडा - बाधा मरणान्तेऽपि यत्र गच्छे मनसा उपलक्षणत्वाद्वचनकायाभ्यां च न क्रियते मुनिभिः, हे गौतम ! स गच्छः स्यादिति । गाथाछन्दः । । क्वचिद्वाउत्ति पदं न दृश्यते, तत्र व्याख्यानं सुकरमेव, छन्दस्तु उपगीतिः, तल्लक्षणं चेदं 'आर्या द्वितीयकेऽर्द्धे, यद्गदितं लक्षणं तत् स्यात् । यद्युभयोरपि दलयो - रुपगीतिं तां मुनिर्ब्रते ।।१।। इति ।। ७५ ।।
खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं ।
नो दया तस्स जीवेसु, सम्मं जाणाहि, गोअमा ! ।। ७६ ।।
खर्जूरीपत्रेन मुंजेन य उपाश्रयं प्रमार्जयति ।
न दया तस्य जीवेषु, सम्यग् जानीहि गौतम ! ॥७६॥
व्याख्या- 'खज्जूरिपत्तमुंजेण 'त्ति खर्जूरीपत्रमयप्रमार्ज्जन्या मुञ्जमय