________________
गच्छाचारपइण्णयं
__ १५० महानसमुच्यते, ततश्च येषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामिव पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमेवाभुक्तं न क्षीयते, ते अक्षीणमहानसाः, उक्तं च-'अक्खीणमहाणसिआभिक्खं जेणाणिअं पुणो तेण । परिभुत्तं चिय खिज्जइ बहुएहिं वि न पुण अन्नेहिं ।।१।।' उपलक्षणत्वादक्षीणमहालयाश्च ते च यत्र परिमितभूप्रदेशेऽवतिष्ठन्ते, तत्रासङ्ख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च सपरिवाराः परस्परबाधारहितास्तीर्थकरपर्षदीव सुखमासते इति २७ तथा 'पुलाग' त्ति पुलाका:-पुलाकलब्धियुक्ता ये संघादिकार्ये चक्रवर्तिनमपि चूर्णयेयुः, उक्तं च-भगवतीवृत्तौ ‘संघाइयाण कज्जे, चुण्णिज्जा चक्कवट्टिमवि जीए। तीए लद्धीइ जुत्तो, लद्धिपुलाओ मुणेयव्वो ||१|| २८ । एवमेता अष्टाविंशतिसङ्ख्या आदिशब्दादन्याश्च मनोवाक्कायबलिलब्ध्यादयो जीवानां शुभशुभतरशुभतमपरिणामवशादसाधारणतपः प्रभावाच्च नानाविधा लब्धयः-ऋद्धिविशेषा भवन्ति, तत्र प्रकृष्टज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषेण वस्तूद्धृत्यान्तर्मुहूर्तेन सकलश्रुतोदध्यवगाहनावदातमनसो मनोबलिनः १ । अन्तर्मुहूर्तेन सकलश्रुतवस्तूच्चारणसमर्था वाग्बलिनः, अथवा पदवाक्यालङ्कारोपेतां वाचमुच्चैरुच्चारयन्तो अविरहितवाक्क्रमा अहीनकंठा वाग्बलिनः २ । वीर्यान्तरायक्षयोपशमाविर्भूतासाधारणकायबलत्वात् प्रतिमया अवतिष्ठमानाः श्रमक्लमविरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः ३ । तथा प्रकृष्टश्रुतावरणवीर्यान्तरायक्षयोपशमाविर्भूतासाधारणमहाप्रज्ञर्द्धिलाभा अनधीतद्वादशाङ्गचतुर्दशपूर्वा अपि सन्तो यमर्थं चतुर्दशपूर्वी निरूपयति तस्मिन् विचारकृच्छ्रेप्यर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः, अन्ये अधीतदशपूर्वा रोहिणीप्रज्ञप्त्यादिमहाविद्यादिभिरङ्गुष्टप्रसेनिकादिभिरल्पविद्यादिभिश्चोपनतानां भूयसीनामृद्धीनामवशगा विद्यावेगधारणाद्विद्याधरश्रमणा इत्यादि । तथा भवसिद्धिअपुरिसाणं, एयाओ हुंति भणिअलद्धीओ | भवसिद्धिअमहिलाणवि, जत्तिय जायंति ते वुच्छं ।।१।।