________________
गच्छाचारपइण्णयं
____ १२६ यत्र च ज्येष्ठः कनिष्ठो ज्ञायते ज्येष्ठवचनबहुमानः। .. दिवसेनापि यो ज्येष्ठो, न च हील्यते स गौतम ! गच्छः ॥६०॥
व्याख्या - यत्र च गणे ज्येष्ठः कनिष्टश्च ज्ञायते, तत्र ज्येष्ठ:पर्यायेण वृद्धः कनिष्टः पर्यायेण लघुः, तथा यत्र ज्येष्ठस्य वचनं-आदेशो ज्येष्ठवचनं तस्य बहुमानः-सन्मानः ज्ञायते, 'जिट्ठविणयबहुमाणो'त्ति पाठे तु ज्येष्ठस्य विनयबहुमानौ ज्ञायेते, तथा यत्र च दिवसेनापि यो ज्येष्ठः स न हील्यते, चकाराद्यत्र पर्यायेण लघुरपि गुणवृद्धौ न हील्यते सिंहगिरिशिष्यैर्वज्रशिशुरिव, हे गौतम ! स गच्छो ज्ञेय इति । गीतिच्छन्दः ||६०।। अथार्याव्यतिकरण गच्छस्वरूपमेव गाथादशकेनाह
जत्थ य अज्जाकप्पो, पाणच्चाएवि रोरदुभिक्खे । न य परिभुज्जइ सहसा, गोयम गच्छं तयं भणियं ।।६१ ।। यत्र चार्याकल्पः प्राणत्यागेऽपि रौरदुर्भिक्षे । न च परिभुज्यते सहसा, गौतम ! गच्छः सको भणितः ॥६१॥
व्याख्या - यत्र च गणे आर्याणामेव-साध्वीनामेव कल्पते इत्यार्याकल्पःसाध्व्यानीताहार इत्यर्थः, प्राणत्यागेऽपि-मरणागमनेऽपि रोरदुर्भिक्षेदारुणदुष्काले न च-नैव परिभुज्यते साधुभिरिति शेषः, कथं सहसाऽविमृश्य संयमस्य विराधनाऽविराधने यतः-सर्वत्र संयममेव रक्षेत्, संयमे च तिष्ठति आत्मानमेव रक्षेत्, आत्मानं च रक्षन् हिंसादिदोषाद् मुच्यते, मुक्तस्य च प्रायश्चित्तप्रतिपत्त्या विशुद्धिः स्यात्, न च हिंसादिदोषप्रतिसेवनकालेऽप्यविरतिः तस्याऽऽशयविशुद्धतया विशुद्धपरिणामत्वात् । उक्तं चौघनिर्युक्तौ ८१ गाथायां-'सव्वत्थ संजमं संजमा उ अप्पाणमेव रक्खेज्जा । मुच्चइ अइवायाओ, पुणो वि सोही न याविरई ।।१।। ततो विमृश्य परिभुज्यतेऽपि अर्णिकापुत्राचार्यैरिव, यदाह-अन्नियपुत्तायरिओ,