________________
वा हव्यवाहः समस्तभूतग्रामघाताय प्रवर्त्तते, वनस्पतिदाह-प्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतो वनस्पतौ कृमिपिपीलिकाभ्रमरकपोतश्वापदादय: सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात्, आपोऽप्यवश्यायरूपाः, वायुरपीषच्चञ्चलस्वभावकोमलकिशलयानुसारी सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्त: एतावतो जीवान्नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, तथा चोक्तम्-‘जायतेयं न इच्छन्ति, पावगं जलइत्तए । तिक्खमन्नयरं सत्थं, सव्वओऽवि दुरासयं ॥१॥ पाइणं पडिणं वावि, उड्ढं अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओऽवि य ।।२।। भूयाणमेसमाघाओ, हव्वाहो न संसओ । तं पईवपयावट्ठा, संजओ किंचि नारभे ॥३॥' (जाततेजसं नेच्छन्ति पावकं ज्वलयितुम् । तीक्ष्णमन्यतरत् शस्त्रं सर्वतोऽपि दुराश्रयम् ॥१।। प्राचीनं प्रतीचीनं वापि ऊर्ध्वभनुदिक्ष्वपि । अधो दक्षिणतो वापि दहति उत्तरतोऽपि च ।।२।। भूतानामेष आघातो हव्यवाहो न संशयः । तत् प्रदीपप्रतापार्थं संयत: किञ्चिन्नारभेत ।।३।।) अथवा बादरतेजस्काया: पर्याप्तका: स्तोकाः, शेषाः पृथिव्यादयो जीवकाया बहवः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा इतरेषां पृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहस्रपरिमाणा दीर्घा अवसेया इति, अतो दीर्घलोक:-पृथिव्यादिस्तस्य शस्त्रम्-अग्निकायस्तस्य क्षेत्रज्ञो' निपुण: अग्निकार्य वर्णादितो जानातीत्यर्थः, खेदज्ञो वा' खेदः-तद्व्यापार: सर्वसत्त्वानां दहनात्मक: पाकाद्यनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेश: यतीनामनारम्भणीयः, तमेवंविधं खेदम्अग्निव्यापारं जानातीति खेदज्ञः, अतो य एव दीर्घलोकशस्त्रस्य खेदज्ञः स एव अशस्त्रस्य' सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कञ्चिज्जीवं व्यापादयति अतोऽशस्त्रम्, एवमनेन संयमेन सर्वसत्त्वाभयप्रदायिनाऽनुष्ठीयमानेनाग्निजीवविषयः समारम्भ: शक्य: परिहर्तुं पृथिव्यादिकायसमारम्भश्वेत्येवमसौ संयमे निपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽ
की आचारांग सूत्रम्
(०९५)