________________
एवमयमग्निलोक: सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम्, अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह
जे दीहलोगसत्थस्स खेयण्णे से असत्थस्स खेयण्णे जे असत्थस्स खेयण्णे से दीहलोगसत्थस्स खेयण्णे ।।सू०३२॥ . 'य' इति मुमुक्षुदीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेषैकेन्द्रियेभ्यो दीर्घो वर्त्तते, तथाहि-कायस्थित्या तावत् ‘वणस्सइकाइए णं भंते ? वणस्सइकाइएत्ति कालओ केवच्चिरं होइ ?, गोयमा ! अणंतं कालं अणंताओ उस्सप्पिणिअवसप्पिणिओ खेत्तओ अणंता लोया असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेजइभागे' (वनस्पतिकायो भदन्त ! वनस्पतिकाय इति कालत: कियच्चिरं भवति ? गौतम ! अनन्तं कालम्, अनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रतोऽनन्ता लोकाः, असंख्येया: पुद्गलपरावर्ताः, ते पुद्गलपरावर्ता आवलिकाया असंख्येये भागे ।) परिमाणतस्तु 'पडुपन्नवणस्सइकाइयाणं भंते ! केवतिकालस्स निल्लेवणा सिया ?, गोयमा ! पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' (प्रत्युत्पन्नवनस्पतिकायिकानां भदन्त ! कियता कालेन निर्लेपना स्यात् ?, गौतम ! प्रत्युत्पन्नवनस्पतिकायिकानां नास्ति निर्लेपना ।) तथा शरीरोच्छ्याच्च दीर्घो वनस्पतिः 'वणस्सइकाइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ?, गोयमा ! साइरेगं जोयणसहस्सं सरीरोगाहणा' (वनस्पतिकायिकानां भदन्त ! का महती शरीरावगाहना प्रज्ञप्ता ?, गौतमा ! सातिरेकं योजनसहस्रं शरीरावगाहना ।) न तथाऽन्येषामेकेन्द्रियाणाम्, अतः स्थितमेतत्-सर्वथा दीर्घलोको वनस्पतिरिति, अस्य च शस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छस्त्रं, ननु च सर्वलोकप्रसिद्ध्या कस्मादग्निरेव नोक्त: ?, किंवा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादयमुत्पाद्यमानो ज्वाल्यमानो
श्री आचारांग सूत्रम्
(०६४)