SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ गष्टादशभेदेति ।। अत्र च सामान्यदिग्ग्रहणेऽपि यस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिकृत्साक्षादर्शयति, भावदिक्चाविनाभाविनी सामर्थ्यदधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आह पण्णवगदिसट्ठारस भावदिसाओऽवि तत्तिया चेव । इस्किक्कं विंधेज्जा हवंति अट्ठारसऽट्ठारा ॥६१ ।। पण्णवगदिसाए पुण अहिगारो एत्थ होइ णायव्वो । जीवाण पुग्गलाण य एयासु गयागई अत्थि ॥६२।। प्रज्ञापकापेक्षया अष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रमाणा एवं प्रत्येकं सम्भवन्तीत्यतः एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन ‘विन्ध्येत्' ताडयेद्, अतोऽष्टादशाष्टादशकाः ते च संख्यया त्रीणि शतानि चतुविंशत्यधिकानि भवन्तीति, एतच्चोपलक्षणं तापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्प्रदेशिकत्वाच्चेति गाथाद्वयार्थः । अयं दिक्संयोग-कलाप: 'अण्णयरीओ दिसाओ आगओ अहमंसी'त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायम् -इह दिग्ग्रहणात् प्रज्ञापकदिशश्चतस्रः पूर्वादिका ऊर्ध्वाधोदिशौ च परिगह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग्ग्रहणात्तु प्रज्ञापकविदिशो द्वादशेति, तत्रासंज्ञिनां नैषोऽवबोधोऽस्ति, संज्ञिनामपि केषाञ्चिद्भवति केषाञ्चिन्नेति, यथाऽहममुष्या दिश: समागत इहेति । एवमेगेसिं णो णायं भवइत्ति' 'एव' मित्यनेन प्रकारेण, प्रतिविशिष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्, (औपपातिकवृत्त्यभिप्रायेणैष तृतीयसूत्रावतरणभागः, चूर्ण्यभिप्रायेण तु भविस्सामि' इति पर्यन्त उपसंहारः, ‘भवति' इति तंजहा' सति चाधिकम् ।) एतेदेव नियुक्तिकृदाह केसिंचि नाणसण्णा अत्थि केसिंचि नत्थि जीवाणं । कोहं परंमि लोए आसी कयरा दिसाओ वा ? ॥६३॥ श्री आचारांग सूत्रम् (०३३)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy