SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ नवमे त्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तत्प्रदर्शनं च शेषसाधूनामुत्साहार्थं, तदुक्तम्- 'तित्थयरो चउणाणी सुरमहिओ सिज्झियव्वाधुवंमि । अणिगूहियबलविरओ सव्वत्थामेसु उज्जमइ ॥ १ ॥ किं पुर अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियव्वं सपच्च वायंमि माणुसे ॥ २ ॥ ( तीर्थंकरश्चतुर्ज्ञानी सुरमहितः ध्रुवं सेधितव्ये । अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति ।। १ ।। किं पुनरवशेषैदुःखक्षयकारणात्सुविहितैः । भवति नोद्यन्तव्यं सप्रत्यपाये मानुष्ये ।।२।। ) ।। साम्प्रतमुद्देशार्थाधिकारः शस्त्रपरिज्ञाया अयम् जीवो छक्कायपरुवणया य तेसिं वह य बंधोति । विरईए अहिगारो सत्थपरिण्णाए णायव्वो ।। ३५ ।। तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यं, शेषेषु तु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येकमुद्देशार्थेषु योजनीयं, प्रथमोद्देशके जीवस्तधे बन्धो विरतिश्चेत्येवमिति ।। तत्र शस्त्रपरिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह दव्वं सत्थग्गिविसन्नेहंबिलखारलोणमाईयं । भावो य दुप्पउत्तो वाया काओ अविरई य ।। ३६ ।। 9 शस्त्रस्य निक्षेपो नामादिश्चतुर्द्धा व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविष- स्नेहाम्ल क्षारलवणादिकं, भावशस्त्रं तु दुष्प्रयुक्तो भाव:अन्तःकरणं तथा वाक्कायावविरतिश्चेति, जीवोपघातकारित्वादितिभावः ।। परिज्ञापि चतुर्द्धेत्याह दव्वं जाणण पच्चक्खाणे दविए सरीर उवगरणे । भावपरिण्णा जाणण पच्चक्खाणं च भावेणं ।। ३७ ।। तत्र द्रव्यपरिज्ञा द्विधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ज्ञपरिज्ञा आगमनोआगमभेदाद्विधा, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्त्रिधा, श्री आचारांग सूत्रम् (०२४)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy