SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ निर्जरार्थमनुशील्यन्ते ।। एतेषां चान्वर्थाभिधानानि दर्शयितुमाहसत्थपरिण्णा १ लोगविजओ २ य सीओसणिज्ज ३ सम्मत्तं ४ । तह लोगसारनामं ५ धुयं ६ तह महापरिण्णा ७ य ।। ३१ ।। अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमगं भणियं । इच्चेसो आयारो आयारग्गाणि सेसाणि ।। ३२ ।। स्पष्टे, केवलमित्येष नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि - आचाराग्राणीति ।। साम्प्रतमुपक्रमान्तर्गतोSर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राद्यमाहजिअसंजमो १ अ लोगो जह बज्झइ जह य तं पजहियव्वं २ । सुहदुक्खतितिक्खाविय ३ सम्मत्तं ४ लोगसारो ५ य ।।३३।। निस्संगया ६ य छट्ठे मोहसमुत्था परीसहुवसग्गा ७ । निज्जाणं ८ अट्ठमए नवमे य जिणेण एवं ति ९ ।। ३४ ।। तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो - 'जियसंजमो 'त्ति जीवेषु संयमो जीवसंयमः-तेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः । लोकविजये तु 'लोगो जह बज्झइ जह य तं पजहियव्व'ति, विजितभावलोकेन ( उदइओ भावो लोगा कसाया जाणियव्वा (इति चूर्णि:) संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये त्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति । चतुर्थे त्वयम् - प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतप: सेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवितव्यमिति । पञ्चमे त्वयम्-चतुरध्ययनार्थ - स्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति । षष्ठे त्वयम् - प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् । सप्तमे त्वयम् - संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परिषहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयम्-निर्याणम्-अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । श्री आचारांग सूत्रम् (०२३)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy