________________
बादरा: समासत: द्विविधा:-प्रत्येका: साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासत: षोढा प्रत्येतव्याः । तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाह
रुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा ॥१२९ ।।
वृश्च्यन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुबीजकाश्च, तत्रैकास्थिका:-पिचुमन्दानकोशम्बशालाङ्कोल्लपीलुशल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिक-तिन्दुकबिल्वामलकपनस-दाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकर्पासीजपाआढकीतुलसी-कुसुम्भरीपिप्पलीनील्यादयः, गुल्मानि तु- नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्ती-अतिमुक्त-ककुन्दलताद्याः, वल्लयस्तुकुष्माण्डीकालिङ्गीत्र-पुषीतुम्बीवालुङ्कीए-लालु-कीपटोल्यादयः, पर्वगा: पुन:-इक्षुवीरणशुण्ठशरवेत्रशतपर्व (त्री)वंशनलवेणु-कादयः, तृणानि तुश्वेतिकाकुशदर्भपर्व(वर्च)कार्जुनसुरभिकुरुविन्दादीनि, वलयानि चतालतमालतक्कलीशालसरलाकेतकीकदलीकन्दल्यादीनि, हरितानितन्दुलीयकाधूयारुहवस्तु-लबदरकमार्जारपादिकाचिल्ली (त्रिल्लरी) पालक्यादीनि, औषध्यस्तु-शालीवहि-गोधूमयवकलममसूरतिल-मुद्गमाषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकङ्ग्वादयः, जलरुहा-उदकावक पनक-शैवलकलम्बुकापाव (वा) ककशेरुकउत्पलपद्मकुमुदनलिनपुण्डरीकादयः, कुहु(ह)णास्तु-भूमिस्फोटकाभिधाना: आयकायकुहुणकुण्डुक्कोदेहलिका-शलाकासर्पच्छत्रादयः, एषां हि प्रत्येकजीवाशनज्ञ वृक्षाणां मूलस्कन्धकन्दत्वक्शालप्रवालादिष्वसंख्येया: प्रत्येकं जीवा: पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः
श्री आचारांग सूत्रम्
(१०२).