________________
हणप्रक्षेपरूपं, प्रामित्यं-साध्वर्थमुच्छिद्य दानलक्षणं, मिश्रजातं च-आदित एव गृहिसंयतमिश्रोपस्कृतरूपं वर्जयेदिति ॥११४॥
संशयव्यपोहायोपायमाहउग्गमं से अ पुच्छिज्जा, कस्सट्ठा केण वा कडं । सुच्चा निस्संकिअं सुद्धं, पडिगाहिज्ज संजए ॥११५॥
'उग्गमंति-उद्गम-तत्प्रसूतिरूपं, 'से' तस्य शङ्कितस्य अशनादेः पृच्छेत् तत्स्वामिनं कर्मकरं, वा, यथा कस्यार्थ-मेतत् ? केन वा कृतमेतदिति, श्रुत्वा तद्वचो न भवदर्थं, किं त्वन्यार्थमित्येवम्भूतं निःशङ्कितं शुद्धं सदृजुत्वादिभावगत्या प्रतिगृह्णीयात् संयतः । विपर्ययग्रहणे दोषादिति ॥११५॥
असणं पाणगं वावि, खाइमं साइमं तहा । पुप्फेसु हुज्ज उम्मीसं, बीएसु हरिएसु वा ॥११६॥
तथा 'असणं'ति-अशनं पानकं वापि खाद्यं स्वाद्यं तथा, पुष्पैःजातिपाटलादिभिः भवेदुन्मिश्रं बीजैर्हरितैर्वेति ॥११६।।
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥११७॥
'तं भवेत्ति-तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥११७॥
असणं पाणगं वा वि, खाइमं साइमं तहा । उदगंमि हुज्ज निक्खित्तं, उत्तिंगपणगेसु वा ॥११८॥
तथा 'असणं ति सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यं तथा, उदके भवेन्निक्षिप्तमुत्तिङ्गपनकेषु वा कीटिकानगरोल्लिषु वेत्यर्थः । उदकनिक्षिप्तं द्विविधं-अनन्तरं परम्परं च, अनन्तरं नवनीत-पोग्गलियमादि, परंपरं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंगपणगेसु भावश्रीदशवैकालिकम् ।