________________
दगवारेण पिहिअं, नीसाए पीढएण वा । लोढेण वावि लेवेण, सिलेसेणवि केणइ ॥१०४॥
किञ्च-'दगवारेण पिहियंति दकवारेण उदककुम्भेन पिहितं-स्थगितं भाजनस्थं, तथा नीसाएत्ति पेषण्या, पीठकेन-काष्ठपीठादिना, लोढेन चापि शिलापुत्रकेण, तथा लेपेन-मृल्लेपादिना, श्लेषण केनचिज'जतुसिक्थादिनेति ॥१०॥
तं च उब्भिदिआ दिज्जा, समणट्ठाए व दावए । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०५॥
'तं च त्ति तच्च उभिदितुं, स्थगितं लिप्तं सत् उद्भिद्य दद्यात् श्रमणार्थं दायकः, नात्माद्यर्थं, तदित्थम्भूतं ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१०५॥
असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, दाणट्ठा पगडं इमं ॥१०६॥
किञ्च-'असणं'ति, अशनं पानकं वापि खाद्यं स्वाद्यं, तद्यथाओदन-आरनालादि-लड्डक-हरीतक्यादि, यज्जानीयादामन्त्रणादिना, श्रृणुयाद्वाऽन्यतो यथा दानार्थं प्रकृतमिदं, दानार्थं प्रकृतं नाम साधुवादनिमित्तं यो ददाति अव्यापार-पाषण्डिभ्यो (वा) देशान्तरादेरागतो वणिक्प्रभृतिरिति सूत्रार्थः ॥१०६॥
तारिसं भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०७॥ 'तारिसं'ति, तादृशं भक्तपानं दानार्थं प्रवृत्तव्यापारं संयतानामकल्पिकं । यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृश
१. मधूच्छिष्टं तु सिक्थकम् । श्रीदशवैकालिकम् ।