________________
देशे सर्वेन्द्रियसमाहितः, शब्दादिभिरव्या (नाक्षि ) प्तचित्त इति ॥ ८५ ॥
तत्थ से चिमाणस्स आहरे पाणभोअणं ।
अकपिअं न गेहिज्जा, पडिगाहिज्ज कप्पिअं ॥ ८६ ॥
1
'तत्थ से 'त्ति, तत्र कुलोचितया भूमौ से तस्य साधोस्तिष्ठतः सतः, आहरेद्-आनयेत् पानभोजनं, गृहीति गम्यते । तत्रायं विधिःअकल्पिकं -अनेषणीयं न गृह्णीयात्, प्रतिगृह्णीयात् कल्पिकं - एषणीयं, एतच्चार्थापन्नमपि कल्पिकग्रहणं, द्रव्यतः शोभनमशोभनमपि एतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति ॥ ८६ ॥
आहरंती सिआ तत्थ, पडिसाडिज्ज भोअणं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥८७॥ 'आहरति 'त्ति, आहरन्ती - आनयन्ती भिक्षामगारीति गम्यते, स्यात्तत्र कदाचित्तदेकदेशं परिशाटयेत् - इतश्चेतश्च विक्षिपेत् भोजनं वा पानं वा, ततः किमित्याह-ददतीं प्रत्याचक्षीत - प्रतिषेधयेत् । तामगारीं, स्त्रियो हि प्रायो भिक्षां ददतीति स्त्रीग्रहणं कथं प्रत्याचक्षीतेत्याह-न मे - मम कल्पते तादृशं परिशाटनावत्, समयोक्तदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेत् मधुबिन्दूदाहरणादिनेति ॥८७॥
संमद्दमाणी पाणाणि, बीआणि हरिआणि य । असंजमकरिं नच्चा, तारिसिं परिवज्जए ॥ ८८ ॥
किंच - ' सम्मद्देति, संमर्दयन्ती पद्भ्याम् समाक्रामन्ती, कानित्याहप्राणिनो- द्वीन्द्रियादीन्, बीजानि - शालिबीजादीनि हरितानि - दूर्वादीनि, असंयमकारीं - साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीतेति ॥८८॥
साह
तहेव
श्रीदशवैकालिकम् ।
निक्खिवित्ता णं, सचितं घट्टिआणि अ । उदगं संपणुल्लिआ ॥ ८९ ॥
समणद्वाए,
५७