SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ मीलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषात् । तथा 'नातिदूरं प्रलोकयेत्' दायकस्यागमनमात्रदेशं प्रलोकयेत्, परतश्चौरादिशङ्कादोषः । तथोत्फुल्लंविकसितलोचनं न निज्झाए इति-न निरीक्षेत, गृहपरिच्छदमप्यदृष्टकल्याण इति लाघवोत्पत्तेः । तथा निवर्तेत गृहादलब्धेऽपि सति, अजल्पन्-दीनवचनमनुच्चारयन्निति ॥८॥ अइभूमिं न गच्छेज्जा, गोअरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता, मिअं भूमि परक्कमे ॥८३॥ तथा 'अइभूमिं ने ति अतिभूमिं न गच्छेद्, अननुज्ञातां गृहस्थैः, यत्रान्ये भिक्षाचरा न यान्तीत्यर्थः । गोचराग्रगतो मुनिः, अनेनान्यदा तद्गमनासम्भवमाह-किं तर्हि ? कुलस्य भूमि-उत्तमादिरूपामवस्थां ज्ञात्वा मितां भूमिं तैरनुज्ञातां पराक्रमेत्, यत्रैषामप्रीतिर्न जायत इति ॥८३।। तत्थेव पडिलेहिज्जा, भूमिभागं विअक्खणो । सिणाणस्स य वच्चस्स, संलोगं परिवज्जए ॥८४॥ विधिशेषमाह-'तत्थेवत्ति तत्रैव-तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना भूमिभागं-उचितं भूमिप्रदेशं, विचक्षणो-विद्वान्, अनेन केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह । तत्र च तिष्ठन् स्नानस्य तथा वर्चसः-विष्ठायाः संलोकं परिवर्जयेद्, एतदुक्तं भवतिस्नानभूमि-कायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति ॥८४॥ दगमट्टिअआयाणे, बीआणि हरिआणि अ । परिवज्जंतो चिट्ठिज्जा, सव्विदिअसमाहिए ॥८५॥ किंच- 'दग'त्ति उदकमृत्तिकादानं-आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृत्तिकानयनमार्गमित्यर्थः । बीजानि-शाल्यादीनि 'हरितानि च' दूर्वादीनि, चशब्दादन्यानि च सचेतनानि परिवर्जयन्, तिष्ठेदनन्तरोदिते श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy